वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी । वेदानां जगतामेव मूल्प्रकृतिरीश्वरी
सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः । विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी
प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि । आदौ राधां समुच्चार्य पश्चात्कृष्णं परात्परम्
स एव पण्डितो योगी गोलोकं याति लीलया । व्यतिक्रमे महापापी ब्रह्महत्यां लभेत्ध्रुवम्
जगतां भवती माता परमात्मा पिता हरिः । पितुरेव गुरुर्माता पूज्या वन्द्या परात्परा
भजते देवमन्यं वा कृष्णं वा सर्वकारणम् । पुण्यक्षेत्रे महामूढो यदि निन्दति राधिकाम्
वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च । पच्यते निरये घोरे यावच्चन्द्रदिवाकरौ
गुरुश्चज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः । स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद्ध्रुवयोर्यतः
निषेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि । भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे
निषेव्य मन्त्रे शंभोश्च जगतां कारणस्य च । तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम्
युक्योः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् । क्षणार्धं षोडशांशं च नहि मुञ्चति दैवतः
भक्त्या च युवचोर्मन्त्रं गृहीत्वा वैष्मपादपि । स्तवं वा कवचं वाऽपि कर्ममूलनिकृन्तनम्
योजयेत्परया भक्त्या पुण्यक्षेत्रे च भारते । पुरुषाणां सहस्रं च त्वात्मना सार्धमुद्धरेत्
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः । कवचं धारयेद्यो हि विष्णुतुल्यो भवेद्ध्रुवम्
यद्दत्तं वस्तु मे मातस्तत्सर्वं सार्थकं कुरु । देहि विप्राय मत्प्रीत्या तदा भोक्ष्यामि सांप्रतम्
देवे देयानि दानानि देवे देया च दक्षिणा । तत्सर्वं ब्राह्मणे दद्यात्तदानन्त्याय कल्पते
ब्राह्मणानां मुखं राधे देवानां मुखमुख्यकम् । विप्रभुक्तं च यद्द्रव्यं प्राप्नुवन्त्येव देवताः
विप्रांश्च भोजयामास तत्सर्व राधिका सती । बभूव तत्क्षणादेव प्रीतो लम्बोदरो मुने
एतस्मिन्नन्तरे देवा ब्रह्मेशशेषसंज्ञकाः । आययुर्वटमूलं च देवपूजार्थमेव च
तत्र गत्वा शिवचरो देवान्देवीरुवाच सः । श्रीकृष्णं शुष्ककण्ठश्च भयभीतश्च रक्षकः
रक्षक उवाच गणेशं पूजयामास सर्वादौ च शुभक्षणे । वृषभानसुता राधा प्रकृत्य स्वस्तिवाचनम्
सहिता सा बलवती गोपीत्रिशतकोटिभिः । वारितोऽहं वलिष्ठाभिर्युष्मांश्च कथयामि तत्
मर्वादौ पूजयेद्यो हि सोऽनन्तं फलमालभेत् । मध्ये मध्यविधं पुण्यं शेषे स्वल्पमिति स्मृतम्
देवेन्द्रेषु मुनीन्द्रेषु देवस्त्रीषु स्थितासु च । गोपीभिश्च सह तया राधया पूजितः परः
दूतवाक्यं समाकर्ण्य जहसुः सर्वदेवताः । मुनयो मनवश्चैव राजानो देवयोषितः
रुक्मिण्याद्या रमण्यश्च या देव्यो विस्मयं ययुः । सरस्वती च सावित्री पार्वती परमेश्वरी
रोहिणी च सती संज्ञा स्वाहाद्या देवयोषितः । मुदिताः प्रययुः सर्वा मुनिपत्न्यः पतिव्रताः
मुनयो मनवः सर्वे देवाश्चापि नरास्तथा । श्रीकृष्णः स गणैः सार्धं ये चान्ये प्रययुर्मुदा
ते सर्वे विविधैर्द्रव्यैः पूजां चक्रुः शुभक्षणे । बलिष्ठा दुर्बलाश्चैव क्रमेण च पृथक्पृथक्
लड्डुकानां च राशीनां शतकोटिर्बभूव ह । शर्कराणां तदर्धं च स्वस्तिकानां तथैव च