नैवेद्य विविधं रम्यं सुस्वादु सुमनोहरम् । चोष्यं चर्व्यं लेह्यपेये सुधातुल्यं चतुर्विधम्
फलानि च सुपक्वानि त्रैलोक्ये दुर्लभानि च । मधुराणि च मूलानि ग्राम्यारण्यानि नारद
तानि त्वन्यान्यसंख्यानि तिलानां लड्डुकानि च । लड्डुकानि सुपक्वानि स्वादूनि सुरसानि च
यवगोधूमचूर्णानां पक्वानि पिष्टकानि च । घृताक्तानि च रम्याणि शर्करासहितानि च
स्वास्तिकानां लड्डुकानि स्थूलानि सुन्दराणि च । भृष्टद्रव्यं च विविधमक्षतं शर्करान्वितम्
घृतकुल्यां दुग्धकुलयां मधुकुल्यं मनोहराम् । गुडस्य दध्नः कुल्यां च पायसानां तथैव च
पिष्टकानां स्वस्तिकानां रम्भाणां राशिरेव च । मिष्टव्यञ्जनयुक्तानि शाल्यन्नानि शुभानि च
ददौ तस्मै सुरेशाय कृष्णप्राणाधिदेवता । अमूल्यरत्ननिर्माणं रम्यं सिंहासनं वरम्
ददौ विघ्नपिनाशाय विराजतटवासिनी । सूक्ष्मवस्त्रयुगं रम्यममूल्यं वह्निशुद्धकम्
ददौ शैलात्मजायैव शतशृङ्गनिवासिनी । विशुद्धसर्पिषा युक्तं निर्मलं मधुरं मधु
मधुपर्कं ददौ तस्मै वृन्दावननिवासिनी । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
सर्वसंपत्प्रदात्रे च वृषभानसुता ददौ । सप्ततीर्थोदकं शुद्धं सुसितं सुवासितम्
पानार्थ च जलं तस्मै ददौ गौपोश्वरी मुदा । अमूल्यं दुर्लभं चैव विशुद्धं श्वेतचामरम्
ददौ तस्मै परेशाय मूलप्रकृतिरीश्वरी । अमूल्यरत्ननिर्माणं मुक्तामाणिक्यहीरकैः
परिष्कृतं सुतल्पं च पुष्पचन्दनचर्चितम् । सितसूक्ष्माशुकेनैव परितश्च परिष्कृतम्
ददौ शिवात्मजायैव कृष्णवक्षःस्थलस्थिता । दत्त्वा च कामधेनुं च सवत्सां वाञ्छितप्रदाम्
कृत्वाऽतीव परीहारं वृन्दा पुष्पाञ्जलिं ददौ । दिव्येन मूल्मनुना सबीजेनोज्ज्वलेन च
ददौ षोडशोपचारं कालिन्दीकुलवासिनी । ॐ गं गौं गणपतये विघ्नविनाशिने स्वाहा
इत्येवमेव मन्त्रं च गाणेशं षोडशाक्षरम् । सा जजाप सहस्रं च परं सल्पतरुं वरम्
तुष्टाव परया भक्त्या भक्तिनम्रात्मकंधरा । साश्रुनेत्रा पुलकिता स्तोत्रेण कौथुमेन च
राधिकोवाच परं धाम परं ब्रह्म परेशं परमेश्वरम् । विघ्ननिघ्नकरं शान्तं पुष्टं कान्तमनन्तकम्
सुरासुरेन्द्रैः सिद्धेन्द्रैः स्तुतं स्तौमि परात्परम् । सुरपद्मदिनेशं च गणेशं मङ्गलायनम्
इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम् । यः पठेत्प्रातरुत्थाय सर्वविघ्नात्प्रमुच्यते
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo त्रयोविंशत्य- धिकशततमोऽध्योयः
अथ चतुर्विंशत्यधिकशततमोऽध्योयः नालायण उवाच राधा संपूज्य विधिना स्तुत्वा लम्बोदरं सती । अमूल्यरत्ननिर्माणं सर्वाङ्गभूषणं ददौ
राधायाः स्तवनं श्रुत्वा पूजां दृष्ट्वा च वस्तु च । उवाच मधुरं शान्तः शान्तां त्रैलोक्यमातरम्
गणेश उवाच तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे । ब्रह्मस्वरूपा भवती कृष्णवक्षः स्थलस्थिता
यत्पादपद्मतुलं ध्यायन्ते ते सुदुर्लभम् । सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः
जीवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः । तस्य प्राणाधिदेवी त्वं प्रिया प्राणाधिका परा
वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः । महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता