गचेन्द्रकोटितुल्याभिर्बलिष्ठाभिः सहाऽऽलिभिः । आययौ सुन्दरी राधा कृष्णप्राणाधिदेवता
रासेश्वरी सुरसिका शतवर्षे गते सति । सुस्नाता मुदती शुद्धा धृत्वा धौते च वाससी
संयता सा निराहारा गत्वा च मणिमण्डपम् । सुप्रक्षालितपादाब्जा कान्ता भुवनपावनी
श्रीकृष्णप्रीतिकामाऽथ सुसंकल्पं विधाय च । गङ्गोदकेन हेरम्बं स्नापयामास भक्तितः
ध्यार्न च सामवेदोक्तं चकार शुक्लपुष्पतः । माता चतुर्णां वेदानां वसोश्च जगतामपि
बुद्धिरूपा भगवती ज्ञानिनां जननी परा । ध्यानात्मकं स्वपुस्रं तं परं ध्यानं चकार सा
शर्वं लम्बोदरं स्थूलं ज्वलन्तं ब्रह्मतेजसा । गजवक्त्रं वह्निवर्णमेकदन्तमनन्तकम्
सिद्धानां योगिनामेव ज्ञानिनां च गुरोर्गुरुम् । ध्यातं मुनीन्द्रैर्देवेन्द्रैर्ब्रह्मेशशेषसंज्ञकैः
सिद्धेन्द्रैर्मुनिभिः सद्भिर्भगवन्तं सनातनम् । ब्रह्मस्वरूपं परमं मङ्गलं मङ्गलालयम्
सर्वविघ्नहरं शान्तं दातारं सर्वसंपदाम् । भवाब्धिमायापोतेन कर्णधारं च कर्मिणाम्
शरणागतदीनार्तपरित्राणपरायणम् । ध्यायेद्ध्यानात्मकं साध्यं भक्तेशं भक्तवत्सलम्
इति ध्यात्वा स्वशिरसि दत्त्वा पुष्पं पुनः सती । सर्वाङ्गशोधनं न्यासं वेदोक्तं च चकार सा
पुनश्च ध्यात्वा ध्यानेन तेनैव शुभदायिना । ददौ पुष्पं पादपद्मे राधा लम्बोदरस्य च
सप्ततीर्थोदकेनैव शीतेन वासितेन च । ददौ पाद्यं पादपद्मे तैः पद्मादिभिरर्चिते
दूर्वाक्षतैः शुक्लपुष्पैः सुगन्धिचन्दनोदकैः । अर्घ्यं ददौ तच्छिरसि स्वयं गोलोकवासिनी
सचन्दनं स्ग्धिमाल्यं पारिजातस्य सुन्दरम् । ददौ गले गणेशस्य स्वयं रासंश्वरी मुदा
कस्तूरीकुङ्कुमाक्तं च सुगन्धि स्निग्धचन्दनम् । सर्वाङ्गे प्रददौ तस्य वृन्दावनविनोदिनी
सुगन्धि शुक्लं पुष्पं च सुगन्ध चन्दनार्चितम् । ददौ तस्य पदाम्भोजे महापद्मलया सती
सुगन्धियुक्तं धूपं च पूतैर्वस्तुभिरन्वितम् । ददौ कृष्णप्रिया तस्मै जगतामीश्वराय च
दीपं घृतप्रदीप्तं च ध्वान्तविध्वंसकारणम् । ददौ तस्मै सुरेशाय परमाद्या सनातनी
नैवेद्य विविधं रम्यं सुस्वादु सुमनोहरम् । चोष्यं चर्व्यं लेह्यपेये सुधातुल्यं चतुर्विधम्
फलानि च सुपक्वानि त्रैलोक्ये दुर्लभानि च । मधुराणि च मूलानि ग्राम्यारण्यानि नारद
तानि त्वन्यान्यसंख्यानि तिलानां लड्डुकानि च । लड्डुकानि सुपक्वानि स्वादूनि सुरसानि च
यवगोधूमचूर्णानां पक्वानि पिष्टकानि च । घृताक्तानि च रम्याणि शर्करासहितानि च
स्वास्तिकानां लड्डुकानि स्थूलानि सुन्दराणि च । भृष्टद्रव्यं च विविधमक्षतं शर्करान्वितम्
घृतकुल्यां दुग्धकुलयां मधुकुल्यं मनोहराम् । गुडस्य दध्नः कुल्यां च पायसानां तथैव च
पिष्टकानां स्वस्तिकानां रम्भाणां राशिरेव च । मिष्टव्यञ्जनयुक्तानि शाल्यन्नानि शुभानि च
ददौ तस्मै सुरेशाय कृष्णप्राणाधिदेवता । अमूल्यरत्ननिर्माणं रम्यं सिंहासनं वरम्
ददौ विघ्नपिनाशाय विराजतटवासिनी । सूक्ष्मवस्त्रयुगं रम्यममूल्यं वह्निशुद्धकम्
ददौ शैलात्मजायैव शतशृङ्गनिवासिनी । विशुद्धसर्पिषा युक्तं निर्मलं मधुरं मधु