यच्छ्रु तं धर्मवक्त्रेण तदुक्तं च यथागमम् । सुदुर्लभमुपाख्यानं किं भूयः श्रोतुमिच्छसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदानाo स्यमन्तकमणिः हरणं नाम द्वाविंशत्यधिकशततमोऽध्यायः
अथ त्रयोविंशत्यधिकशततमोऽध्यायः नारद उवाच गणेशपूजनाख्यानं पुराणेषु च दुर्लभम् । श्रुतं तद्ब्रह्मणो वक्त्रात्सामान्यं च समासतः
महिमानं गणपतेः सर्वबूज्येश्वरस्य च । व्यासेन श्रोतुमिच्छामि योगीन्द्राणां गुरोर्गुरोः
सिद्धाश्रमे महापूज त्रैलोक्यस्थैः कृता पुरा । राधामाधवयोस्तत्र पुनः संमीलरं पुरा
अतीते वर्षशतके श्रीदाम्नः शापमोक्षणे । आदौ चकार पूजां च सा च राधा कथं मुने
स्थितेषु च सुरेन्द्रेषु ब्रह्मविष्णुशिवादिषु । नागेन्द्रे च स्थिते शेषे नागेषु च महत्सु च
राजेन्द्रेषु च भूमौ च बलिष्ठेष्वसुरेषु च । गन्धर्वेषु च रक्षःसु चान्येषु बलवत्सु च
विस्तरेण महाभाग तन्मे व्याख्यातुमर्हसि
नारायण उवाच त्रेलोक्ये पृथिवी धन्या मान्या पुण्यवती सती । तत्र भारतवर्षं च कर्मणां फलदं शुभम्
धन्यं यशस्यं पूज्यं च पुण्यक्षेत्रे च भारते । सिद्धाश्रमं महापुण्यक्षेत्रं मोक्षप्रदं शुभम्
सनत्कुमारो भगवांस्तत्र सिद्धो बभूव ह । स्वयं विधाता तत्रैव तप्त्वा सिद्धो बभूव ह
योगीन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्राः कपिलादयः । शतक्रन्तून्महेन्द्रश्च तत्र कृत्वा बभूव ह
तेन सिद्धाश्रमं नाम सर्वेषामपि दुर्लभम् । अधिष्ठानं गणेशस्य तत्रेव सततं मुने
अमूल्यरत्ननिर्माणगणेशप्रतिमां शुभाम् । वैशाख्यां पूर्णिमायां च पूजां कुर्वन्ति देवताः
नागाश्च मानवाश्चैव दैत्या गन्धर्वराक्षसाः । सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयाः
तत्राऽऽजगाम शंभुश्च पार्वत्वा सह शंकरः । सगणः कार्तिकेयश्च स्वयं ब्रह्मा प्रजापतिः
तत्राऽऽजगाम शेषश्च नागेन्द्रैः सह सत्वरम् । तज्ञाऽऽजग्मुः सुराः सर्वे मनवो मृनयस्तथा
आजग्मुस्ते नृपाः सर्वे पूजार्थं हृष्टमानसाः । आययौ भगवान्कृष्णो द्वारकावासिभिः सह
आजगाम तथा नन्दः सार्धं गोकुलवासिभिः । गोपीत्रिशतकोटीभिर्गोलोकवासिभिः सह
गचेन्द्रकोटितुल्याभिर्बलिष्ठाभिः सहाऽऽलिभिः । आययौ सुन्दरी राधा कृष्णप्राणाधिदेवता
रासेश्वरी सुरसिका शतवर्षे गते सति । सुस्नाता मुदती शुद्धा धृत्वा धौते च वाससी
संयता सा निराहारा गत्वा च मणिमण्डपम् । सुप्रक्षालितपादाब्जा कान्ता भुवनपावनी
श्रीकृष्णप्रीतिकामाऽथ सुसंकल्पं विधाय च । गङ्गोदकेन हेरम्बं स्नापयामास भक्तितः
ध्यार्न च सामवेदोक्तं चकार शुक्लपुष्पतः । माता चतुर्णां वेदानां वसोश्च जगतामपि
बुद्धिरूपा भगवती ज्ञानिनां जननी परा । ध्यानात्मकं स्वपुस्रं तं परं ध्यानं चकार सा
शर्वं लम्बोदरं स्थूलं ज्वलन्तं ब्रह्मतेजसा । गजवक्त्रं वह्निवर्णमेकदन्तमनन्तकम्
सिद्धानां योगिनामेव ज्ञानिनां च गुरोर्गुरुम् । ध्यातं मुनीन्द्रैर्देवेन्द्रैर्ब्रह्मेशशेषसंज्ञकैः
सिद्धेन्द्रैर्मुनिभिः सद्भिर्भगवन्तं सनातनम् । ब्रह्मस्वरूपं परमं मङ्गलं मङ्गलालयम्
सर्वविघ्नहरं शान्तं दातारं सर्वसंपदाम् । भवाब्धिमायापोतेन कर्णधारं च कर्मिणाम्