कुन्ती च दमयन्ती च यशोदा देवकी सती
वृषभानुप्रिया साध्वी राधामाता कलावती
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी 2.1.
रेणुका च भृगोर्माता हलिमाता च रोहिणी
बह्व्यः सन्ति कलाश्चैवं प्रकृतेरेव भारते
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः
ब्राह्मणी पूजिता येन पतिपुत्रवती सती
कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः
एवं निगदितं सर्वं प्रकृतेर्भेदपञ्चकम् 2.1.
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः
लक्ष्मीर्मङ्गलभूपेन प्रथमे परिपूजिता
सावित्री प्रथमं चापि भक्त्या वै परिपूजिता
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता
प्रथमं पूजिता राधा गोलोके रासमण्डले
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः
तदा ब्रह्मादिभिर्देवैर्मुनिभिर्मनुभिस्तथा। पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा।।2.1.
पृथिव्यां प्रथमे देवी सुयज्ञेन च पूजिता
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः
कला या याः सुसंभूताः पूजितास्ताश्च भारते
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम्
नारद उवाच विबोधनार्थं बोधस्य व्यासतो वक्तुमर्हसि