स्यमन्तकस्य च मणेरुपाख्यानमभीप्सितम् । तन्न श्रुतं महाभाग तन्मां व्याख्यातुमर्हसि
नारायण उवाच भाद्रशुक्लचतुर्थ्यां च तारकां हृत्वाञ्छशी । तां तत्याज स कृष्णायां गुरुस्तां च गृहीतवान्
गुरुणा भर्त्सिता तारा मगर्भा लज्जिता सती । शशाप लज्जया कोपाच्चन्द्रं कामातुरं पुरा
तारोवाच भव शापकलंकी त्वं यस्त्वां पश्यति देहभृत् । पापं दृष्ट्वा स पापी च कलंकी च भविष्यति
इति श्रुत्वा स चन्द्रश्च नारायणसरोवरे । नारायणतपस्तप्त्वा मुमोच कृतपातकात्
तपःक्लिष्टं च तं दृष्ट्वा भगवान्पुरुषोत्तमः । तमुवाच महाभीतं कृपया च कृपानिधिः
श्रीभगवानुवाच मुक्तो भव कलंकी त्वं सर्वकालं कलानिधे । शापस्थानं तारकाया भाद्रे मासि सितासिते
चतुर्थ्यामुदितं चन्द्रं यस्तु पश्यति कामतः । तं याति तत्कलङ्कश्च स कलंकी भविष्यति
हरिणा दीयते ताले भाद्रे मासि सितासिते । चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन
स्वयं दृष्ट्वा स्ववाक्यं च पालनं कर्तुमर्हति । भाद्रे चन्द्रं चतुर्थ्यां तु स कलंकी बभूव ह
कलंकी येन रूपेण तद्वक्ष्यामि निशामय । स मुमोच कलंकाच्च लोकशिक्षार्थमीश्वरः
सत्राजितः सूर्यभक्तस्तपस्तब्त्वा च पुष्करे । स्यमन्तकं मणिश्रेष्ठं संप्राप भास्करादपि
अष्टौ भारान्सुवर्णानां प्रसूते नित्यमेव च । विष्गोर्मणावधिष्ठानं महापूते च पुण्यदे
सत्राजितः सत्यभामां दत्त्वा कृष्णाय भक्तितः । यौतुकार्थे मणिं दातुमुद्यतो महते महान्
तं निषिध्य प्रसेनश्च दुर्मतिः कालपीडितः । मणिं गृहीत्वा प्रययौ पुण्यां वाराणसीं पुरीम्
निहत्य तं पथि बलात्सिंहः सबल एव च । मणिं जग्राह रुचिरं सूत्रबद्धं गले दधौ
कलिङ्गराजपुत्रश्च ब्रह्मशापात्सुदारुणात् । विप्रेणाम्युदितस्तेन पशुयोनिं जगाम् सः
निहत्य सिंहं गहने भल्लूको जाम्बवान्बली । मणिं गृहीत्वा प्रययौ स्वपुरं रत्ननिर्मितम्
ऊचुः सर्वे द्वारकायां मणिं जगाह माधवः । तस्य बुद्धिं न जानीमः केनोपायेन वेति च
इति श्रुत्वा तु भगवान्कलंककृन्तनाय च । प्रययौ काननं घोरं चौरचिह्नेन वर्त्मना
मृतं प्रसेनं दृष्ट्वा च दुःखी सिहं ददर्श सः । मणिशून्यं च तं दृष्ट्वा विषसाद च माधवः
सर्वंज्ञात्वा च सर्वज्ञो भल्लूकभवनं ययौ । रुदन्तं बालकं तत्र धात्रीक्रोडे ददर्श सः
बालकं बोधयामास सा धात्री करुणान्विता । मणिं गृहाण बालेति तव ह्येष स्यमन्तकः
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः
इति धात्र्युक्तसुश्लोकं यश्च स्मृत्वा जलं पिबेत् । दैवदृष्टनष्टचन्द्रद्रोषादेव प्रमृच्यते
कामतो यदि पश्यन्ति दाम्भिका वेदनिन्दकाः । कलङ्किनो भवन्त्येवमित्याह कमलोद्भवः
कृष्णो धात्रीवचः श्रुत्वा मणिं जग्राह बालकात् । धात्री गत्वा च भल्लूकं कथयामास कोपतः
जाम्बवांश्च समागत्य तुष्टाव प्रणिपत्य सः । कन्यां जाम्बवतीं तस्मै यौतुकार्थं मणिं ददौ
द्वारकां मणिमानीय दर्शयामास यादवान् । प्रभुश्च सर्वतः शुद्धो निष्कलङ्को बभूव सः
एतत्ते कथितं वत्स मणेराख्यानमुत्तमम् । अध्यायश्रवणादेव निष्कलंको भवेन्नरः