भोजयित्वा च संपूज्य ब्राह्मणं च चतुर्विधम् । निनाय रजनीं दुःखाद्वाक्शल्यमान ज्वरात्
प्रभाते रथमारुह्य सगणः सत्वरं मुदा । लीलामात्रेण प्रययौ श्रृगालो नृपतिर्यतः
श्रुत्वा श्रृगालो वार्तां तां कृत्रिमश्च चतुर्भुजः । आजगाम हरेः स्थानं युद्धाय सगणः स्वयम्
कृष्णश्चक्रे च संभाषां मित्रबुद्ध्या च लौकिकीम् । आश्लेषं मधुरालापं स्निग्धनेत्रश्च सस्मितः
राजा निमन्त्रणं चक्रे कृष्णो न स्वीचकार तत् । उवाच कृष्णभीतश्चत्यक्त्वा दम्भं च दर्शनात्
श्रृगाल उवाच चक्रेण मच्छिरश्छित्त्वा सुशीघ्रं द्वारकां व्रज । पापः पततु देहोऽयमनित्यो नश्वरस्तथा
अहं सुभद्रस्ते द्वारि जयश्च विजयो यथा । सर्व जानासि सर्वज्ञ मा विलम्बं कुरु प्रभो
लक्ष्मीशापेन भ्रष्टोऽहं कालः पूर्णो बभूव मे । शतवर्षेण शापान्ते यास्यमि भवनं तव
श्रीकृष्ण उवाच पूर्व मां मित्र प्रहर पश्चाद्युद्धं करोभ्यहम् । सर्व जानामि वैकुण्ठं गच्छ वत्स यथासुखम्
श्रृगालो दशबाणांश्च चिक्षेप माधवं प्रति । ते प्रणभ्य ययुः शीघ्रमाकाशं कालरूपिमः
गदां चिक्षेप राजा स प्रलयाग्निशिखोपमाम् । कृष्णाङ्गस्पर्शमात्रेण बभञ्ज च क्षणेन च
शूलं चिक्षेप मुसलं च परशुं तथा । कृष्णाङ्गस्पर्शमात्रेण बभञ्ज च क्षणेन च
धनुश्चिक्षेप खङ्गं च कालरूपं सुदारुपाम् । कृष्णाङ्गस्पर्शमात्रेण बभञ्ज च क्षणेन च
दृप्ट्वा निरस्त्रं राजनमित्युवाच कृपानिधिः । गृहं गत्वा सुतीक्ष्णं च मित्रास्त्रमानयेति च
श्रृगाल उवाच नाऽऽत्माऽऽकाशोऽस्त्रविद्धश्च किं युद्धमात्मना सह । मामुद्धर भवाब्धेश्च धरोद्धारणकारण
भवार्ब्धि विषमं नाथ विषयं च विषाधिकम् । छिन्धि मे निगडं मायां मोहजालं स्वकर्मणः
कर्मणामीश्वरस्त्वं च विधाता घातुरेव च । दाता शुभफलानां च प्रदाता सर्वसंपदाम्
कारणं प्राक्तनानां च तेषां च खण्डने क्षमः । यामि गेहं च वैकुण्ठं तवैव द्वारसप्तमम्
त्यक्त्वा च नशवरं देहं प्राकृतं पाञ्चभौतिकम् । मित्रस्य स्तवनं श्रुत्वा वचनं च सुधोपमम्
रुरोद समरे तत्र कृपया च कृपानिधिः । बभूव तत्र सहसा कृष्णनेत्राश्रुबिन्दुना
दिव्यं बिन्दुसरो नाम् तीर्थानां प्रवरं परम् । तत्तोयस्पर्शमात्रेण जीवन्मुक्तो भवेन्नरः
श्रीभगवानुवाच कथमेतादृशी बुद्धिर्मित्र ते निर्मलं मनः । दूतद्वारा कथं चौक्तं निष्ठुरं दारुणं वचः
शृगाल उवाच एवमुक्तो मया त्वं च तेन क्रोधादिहाऽऽगतः । अन्यथा दुर्लभं नाथ स्वप्नेऽपि तव दर्शनम्
एतस्मिन्नन्तरे योगाद्देहं त्यक्त्वा च प्राकृतम् । दृष्ट्वा कृष्णं च यानेन वैकुष्ठं प्रययौ मुदा
सप्ततालप्रमाणं च ज्योतिस्तत्र महोल्बणम् । पद्मैः पद्मार्चितं पादपद्मं नत्वा जगाम ह
गत्वा च द्वारकां कृष्णो नत्वा च पितरं प्रसूम् । श्रीकृष्णः सगणः शीघ्रं दृष्ट्वा च परमाद्भुतम्
प्रफुल्लवदनः श्रीमान्द्वारकाभिमुखं ययौ । जगाम रुक्मणीगेहं पुष्पजन्दनवासितम्
पुष्पचन्दनतल्पे च नक्तं रेमे तया सह । मूर्च्छं संप्राप स भैष्मी कृष्णं कृत्वा स्ववक्षसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo शृगालवासुदेव- मोक्षणं नामैकविंशत्यधिकशततमोऽध्यायः
अथ द्वाविंशत्यधिकशततमोऽध्यायः नारद उवाच सर्वासां रमणीनां च कृष्णेन परमात्मना । समुद्वाहश्च कथितस्त्वया भगवता मुदा