जनं जनेन निर्जित्य दुर्बलं बलिना सह । जोधयित्वा महाधूर्तो घातयामास भूपतीन्
दुर्योधनं जरासंधं भूपमन्यं च दुर्बलम् । भीमेन घातयामास बलिनाऽल्पेन भूतले
द्रोणं भीष्मं च कर्ण च यं यमन्यं च भूतले । बलीयसाऽर्जुनेनैव घातयामास मायया
यं यमन्यं दुर्बलं च प्रसिद्धमप्रसिद्धकम् । प्रसिद्धेन बलवता घातयामास मायया
शिशुपालं दन्तवक्त्रं कंसं च चिररोगिणम् । मत्पुत्रं नरकं चैव दुर्बलं केशिनं मुरम्
स्वयं जघान संकेताच्छलेन सहसा बत । न धर्मयुद्धे कपटी स च बालो ह्यधार्मिकः
जघान पूतनां कुब्जां स्त्रीघाती वस्त्रहेतुना । जघान रजकं शिष्टमशिष्टश्च प्रतारकः
हिरण्यकशिपुं दैत्यं हिरण्याक्षं महाबलम् । मधुं च कैटभं चैव हत्वाऽहं सुष्टिरक्षकः
अहमेव स्वयं ब्रह्मा ह्यहमेव स्वयं शिवः । अहं विष्णुश्च जगतां पाता दुष्टापहारकः
अंशेन कलया सर्वे मनवो मुनयस्तथा । स्वयं नारायणोऽहं च मिर्गुणः प्रकृतेः परः
लज्जया कृपया चैव मित्रबुद्ध्या ङमा कृता । यद्गतं तद्गतं भद्र युद्धं कुरु मया सह
श्रृणोमि दूतद्वारेण ह्यतीवोच्चैरहंकृतम् । उचितं दमनं तस्याप्युन्नतानां निपातनम्
राज्ञश्च परमो धर्मोऽप्यहं शास्ता भुवोऽधुना । शङ्खं चक्रं गदां पद्मं गृहीत्वाऽहं चतुर्भुजः
द्वारकां ता गमिष्यामि युद्धाय सगणः स्वयं । युद्धं कुरु यदीच्छाऽस्ति मा मां च शरणं व्रज
यदि मा यास्यति मम शरणं शरणागतः । भस्मीभूतां करिष्यामि द्वारकां च क्षणेन च
सबलं च सपुत्रं त्वां सगणं च सबान्धवम् । क्षणेन दग्धुं शक्तोऽहमसहायेन लीलया
तपस्विनं च वृद्धं च जित्वा युद्धे च शंकरम् । शक्रं भगाङ्गं जित्वा च रोगिणं ब्रह्मशापतः
मत्तोऽसि वीरमात्मानं मन्यमानस्त्वमेव च । स्त्रीजितो हि वृथार्थ च पारिजातस्य हेतुना
लमपटो योनिलुब्धश्च राधादीनश्च गोकुले । अधुना किंकरसमः सत्यादीनां च योषिताम्
इत्येवमुक्त्वा विप्रश्च तूष्णींभूय स्थितो मुने । शीकुष्णः सगणः श्रुत्वा भृशसुच्छैर्जहास सः
भोजयित्वा च संपूज्य ब्राह्मणं च चतुर्विधम् । निनाय रजनीं दुःखाद्वाक्शल्यमान ज्वरात्
प्रभाते रथमारुह्य सगणः सत्वरं मुदा । लीलामात्रेण प्रययौ श्रृगालो नृपतिर्यतः
श्रुत्वा श्रृगालो वार्तां तां कृत्रिमश्च चतुर्भुजः । आजगाम हरेः स्थानं युद्धाय सगणः स्वयम्
कृष्णश्चक्रे च संभाषां मित्रबुद्ध्या च लौकिकीम् । आश्लेषं मधुरालापं स्निग्धनेत्रश्च सस्मितः
राजा निमन्त्रणं चक्रे कृष्णो न स्वीचकार तत् । उवाच कृष्णभीतश्चत्यक्त्वा दम्भं च दर्शनात्
श्रृगाल उवाच चक्रेण मच्छिरश्छित्त्वा सुशीघ्रं द्वारकां व्रज । पापः पततु देहोऽयमनित्यो नश्वरस्तथा
अहं सुभद्रस्ते द्वारि जयश्च विजयो यथा । सर्व जानासि सर्वज्ञ मा विलम्बं कुरु प्रभो
लक्ष्मीशापेन भ्रष्टोऽहं कालः पूर्णो बभूव मे । शतवर्षेण शापान्ते यास्यमि भवनं तव
श्रीकृष्ण उवाच पूर्व मां मित्र प्रहर पश्चाद्युद्धं करोभ्यहम् । सर्व जानामि वैकुण्ठं गच्छ वत्स यथासुखम्
श्रृगालो दशबाणांश्च चिक्षेप माधवं प्रति । ते प्रणभ्य ययुः शीघ्रमाकाशं कालरूपिमः