कृष्णस्तस्मै वरं दत्त्वा वेदोक्तं च शुभाशिष्म् । शंकरानुमतेनैव प्रययौ द्वारकां पुरीम्
गत्वा कन्यां नवोढां तां बाणस्यापि महात्मनः । रुक्मिण्यै प्रददौ शीघ्रं देवक्यै च हरिः स्वयम्
महोत्सवं मङ्गलं च कारयामास यत्नतः । ब्राह्मणान्भोजयामास ब्राह्मणेभ्यो धनं ददौ
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धं नाम विंशत्यधिकशततमोऽध्यायः
अथैकविंशत्यधिकशततमोऽध्यायः नारायण उवाच अथ कृष्णः सुधर्मायां निवसन्सगणस्तथा । तत्राऽऽजगाम् विप्रश्च प्रज्वलन्ब्रह्मतेजसा
आगत्य दृष्टाव तुष्टाव भक्त्या च पुरुषोत्तमम् । उवाच मधुरं शान्तो भीतो विनयपूर्वकम्
ब्राह्मण उवाच श्रृगालो वासुदेवश्च राजेशो मण्डलेश्वरः । त्वामुवाच स यद्वाक्यं सावधानं निशामय
श्रृगाल उवाच वैकुण्ठे वासुदेवोऽहं देवेशश्च चतुर्भुजः । लक्ष्मीपतिश्च जगतां धाता धातुश्च पालकः
ब्रह्मणा प्रार्थितोऽहं च भारावतरणाय च । भुवो भारतवर्ष च तदर्थ गमनं मम
वसुदेवसुतो वैश्यः क्षत्रियश्चाप्यहंकृतः । आत्मानं भक्तविष्णुश्च मायावी च प्रतारकः
जनं जनेन निर्जित्य दुर्बलं बलिना सह । जोधयित्वा महाधूर्तो घातयामास भूपतीन्
दुर्योधनं जरासंधं भूपमन्यं च दुर्बलम् । भीमेन घातयामास बलिनाऽल्पेन भूतले
द्रोणं भीष्मं च कर्ण च यं यमन्यं च भूतले । बलीयसाऽर्जुनेनैव घातयामास मायया
यं यमन्यं दुर्बलं च प्रसिद्धमप्रसिद्धकम् । प्रसिद्धेन बलवता घातयामास मायया
शिशुपालं दन्तवक्त्रं कंसं च चिररोगिणम् । मत्पुत्रं नरकं चैव दुर्बलं केशिनं मुरम्
स्वयं जघान संकेताच्छलेन सहसा बत । न धर्मयुद्धे कपटी स च बालो ह्यधार्मिकः
जघान पूतनां कुब्जां स्त्रीघाती वस्त्रहेतुना । जघान रजकं शिष्टमशिष्टश्च प्रतारकः
हिरण्यकशिपुं दैत्यं हिरण्याक्षं महाबलम् । मधुं च कैटभं चैव हत्वाऽहं सुष्टिरक्षकः
अहमेव स्वयं ब्रह्मा ह्यहमेव स्वयं शिवः । अहं विष्णुश्च जगतां पाता दुष्टापहारकः
अंशेन कलया सर्वे मनवो मुनयस्तथा । स्वयं नारायणोऽहं च मिर्गुणः प्रकृतेः परः
लज्जया कृपया चैव मित्रबुद्ध्या ङमा कृता । यद्गतं तद्गतं भद्र युद्धं कुरु मया सह
श्रृणोमि दूतद्वारेण ह्यतीवोच्चैरहंकृतम् । उचितं दमनं तस्याप्युन्नतानां निपातनम्
राज्ञश्च परमो धर्मोऽप्यहं शास्ता भुवोऽधुना । शङ्खं चक्रं गदां पद्मं गृहीत्वाऽहं चतुर्भुजः
द्वारकां ता गमिष्यामि युद्धाय सगणः स्वयं । युद्धं कुरु यदीच्छाऽस्ति मा मां च शरणं व्रज
यदि मा यास्यति मम शरणं शरणागतः । भस्मीभूतां करिष्यामि द्वारकां च क्षणेन च
सबलं च सपुत्रं त्वां सगणं च सबान्धवम् । क्षणेन दग्धुं शक्तोऽहमसहायेन लीलया
तपस्विनं च वृद्धं च जित्वा युद्धे च शंकरम् । शक्रं भगाङ्गं जित्वा च रोगिणं ब्रह्मशापतः
मत्तोऽसि वीरमात्मानं मन्यमानस्त्वमेव च । स्त्रीजितो हि वृथार्थ च पारिजातस्य हेतुना
लमपटो योनिलुब्धश्च राधादीनश्च गोकुले । अधुना किंकरसमः सत्यादीनां च योषिताम्
इत्येवमुक्त्वा विप्रश्च तूष्णींभूय स्थितो मुने । शीकुष्णः सगणः श्रुत्वा भृशसुच्छैर्जहास सः