अथ बाणः पुनः क्रुद्धो रथमारुह्य कोपतः । कार्तिकेयश्च भगवान्युद्धाय पुनरागतः
बाणः पञ्च शरांश्चैव चिक्षेप रणमूर्धनि । अर्धचन्द्रेण चिच्छेद बलदेवो महाबलः
रथं बभञ्ज बाणस्य लाङ्गलेन च लाङ्गली । जघन सूतमश्वांश्च मुसलेनावलीलया
कुर्वन्तमुद्यमं छेत्तुं हलिनं च महाबलः । कालाग्निरुद्रो भगवान्वारयामास लीलया
रथं कालाग्निरुद्रस्य बभञ्ज लाङ्गली रुषा । हलेन सूतमश्वाश्च जधान रणमूर्धनि
कालाग्निरुद्रः कोपेन चिक्षेप जवरमुल्वणम् । बभूवुर्यादवाः सर्वे ज्वराक्रान्ता हरिं विना
तं दृष्ट्वा भगवान्कृष्णः ससर्ज वैष्णवं ज्वरम् । तं चिक्षेप ज्वरं हन्तुं माहेशं रणमूर्धनि
बभूव ज्वरयोर्युद्धं मुहूर्तमतिदारुणम् । वैष्णवज्वरनिष्कान्तो रणमीर्ध्नि पपात सः
ज्वर उवाच प्रणान्रक्ष जगन्नाथ भक्तानुग्रहविग्रह । त्वमात्मा पुरुषः पुर्णः सर्वत्र समता तव
ज्वरस्य वचनं श्रुत्वा संजहार स्वकं ज्वरम् । माहेश्वरो ज्वरो भीतो रणादेव हि निर्ययौ
बाणश्च पुनरागत्य बाणानां च सहस्रकम् । चिक्षेप मन्त्रपूतं च प्रलयाग्निशिखोपमम्
फाल्गुनः शरजालेन वारयामास लीलया । चिक्षेप शक्तिं बाणश्च ग्रीष्मसूर्यसमप्रभाम्
चिच्छेद लीलया तां च सव्यसाची महाबलः । स जग्राह पाशुपतं शतसूर्यसमप्रभम्
अत्यर्थमतिघोरं च विश्वसंहारकारकम् ।तद्दृष्टा चक्रपाणिश्च चक्रं चिक्षेप दारुणम्
हस्तानां च सहस्रं च सपाशुपतमुल्बणम् । चिच्छेद रणमध्ये च पपाताचलसिंहवत्
शस्त्रं पाशुपतं चैव ययौ पशुपतेः करम् । अव्यर्थ दारुणं लोके प्रलयाग्निशिखोपमम्
बाणरक्तसमूहेन बभूव च महानदः । बाणः पपात निश्चेष्टी व्यथितो हतचेतनः
तत्राऽऽजगाम भगवान्महदेवो जगद्गुरुः । रुरोदाऽऽगत्य मोहेन बाणं कृत्वा स्ववक्षसि
शिवाश्रुपतनेनैव संबभूव सरोवरम् । चेतनं कारयामास करुमासागरः प्रभुः
बाणां गृहीत्वा प्रययौ यत्र देवो जनार्दनः । चक्रे पद्मार्चिते पादपद्मे बाणसमर्पणम्
तुष्टाव जगतां नाथं भक्तेशं चन्द्रशेखलः । बलिना च स्ततं येन वेदोक्तेन च तेन च
हरिर्मृत्युंजयं ज्ञानं ददौ बाणाय धीमते । करपद्मं ददौ गात्रे तं चकाराजरामरम्
बाणः स्तोत्रेण तुष्टाव भक्त्या बलिकृतेन च । वरां कन्यां समानीय रत्नभूषणभूषिताम्
ब्रददौ हरये भक्त्या तत्रैव देवसंसदि । गजेन्द्राणां पञ्चलक्ष्मश्वानां तच्चतुर्गुणम्
दासीनां च सहस्रं च रत्नभूषणभूषितम् । सहस्रं कामधेनूनां वत्सयुक्तं च सर्वदम्
माणिक्यानां च मुक्तानां रत्नानां शतलक्षकम् । मणीन्द्राणां हीरकाणां शतलक्षं मनोहरम्
जलभाजनपात्राणि सुवर्णनिर्मितानि च । महस्राणि ददौ तस्मै भक्तिनम्रात्मकंधरः
वराणि सूक्ष्मवस्त्राणि वह्निशुद्धांशुकानि च । ददौ बाणश्च मर्वाणि स्वभक्त्या शंकराज्ञया
ताम्बूलानां मधनां च पूर्णपात्राणि नारद । सहस्राणि ददौ भक्त्या वराणि विविधानि च
कन्यां समर्पयामास पादपद्मे हरेरपि । रुरोदोच्चैः स्वभक्त्या च परिहारं चकार सः