प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा
कालकन्ये मृत्युजरे प्रज्वरस्य प्रिये प्रिये
निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते
अदितिर्देवमाता च सुरभिश्च गवां प्रसूः 2.1.
उपयुक्ताः सृष्टिविधावेताश्च प्रकृतेः कलाः
रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी
तारा बृहस्पतेर्भार्य्या वसिष्ठस्याप्यरुन्धती
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी
लोपामुद्रा तथा हूतिः कुबेरस्य तु कामिनी
कुन्ती च दमयन्ती च यशोदा देवकी सती
वृषभानुप्रिया साध्वी राधामाता कलावती
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी 2.1.
रेणुका च भृगोर्माता हलिमाता च रोहिणी
बह्व्यः सन्ति कलाश्चैवं प्रकृतेरेव भारते
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः
ब्राह्मणी पूजिता येन पतिपुत्रवती सती
कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः
एवं निगदितं सर्वं प्रकृतेर्भेदपञ्चकम् 2.1.
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः
लक्ष्मीर्मङ्गलभूपेन प्रथमे परिपूजिता