किं वा न दग्धः प्रययौ नभोमध्यं सुदारुणम् । वह्निं चिक्षेप बाणश्च सात्यकिर्वारुणेन च
प्रज्वलन्तं तालमानं निर्वाणं च चकार सः । चिच्छेद वारुणं घोरं प्रजण्डं भीममुल्बणम्
चिच्छेद सात्यकिश्चैव पार्जन्येनावलीलया । चिक्षेप पवनं बाणः प्रचण्डं भीममुल्बणम्
चिच्छेद सात्यकिश्चैव पर्वताश्त्रेण लीलया । नारायणस्त्रं चिक्षेप बाणश्च रणमूर्धनि
सात्यकिर्दण्डवद्भूमौ पपातार्जुनशिक्षया । माहेश्वरं प्रचिक्षेप बाणः शस्त्रविदां वरः
सात्यकिर्वैष्णवास्त्रेण प्रविच्छेदावलीलया । ब्रह्मास्त्रं चापि चिक्षेप बाणश्च रणमूर्धनि
क्षणं चकार निर्वाणं ब्रह्मास्त्रेण च सात्यकिः । नागास्त्रं चापि चिक्षेप बाणो रणविशारदः
सात्यकिर्गारुडेनैव संजहार क्षणेन च । जग्राह शूलमव्यर्थं शंकरस्य सुदारुणम्
तुष्टाव सात्यकिर्दुर्गा गले माल्यं बभूव ह । जग्राह धनुषा बाणो बाणं पाशुपतं तथा
बाणं सबाणं जृम्भं च सात्यकिश्च चकार ह । बाणं तं जृम्भितं दृष्ट्वा कार्तिकेयो महाबलः
अर्धचन्द्रं च चिक्षेप कामश्चिच्छेद लीलया । गदां चक्षेप च स्कन्दः प्रातः सूर्यसमप्रभाम्
वैष्णवास्त्रेण कामश्च निर्वाणं च चकार सः । नारायणस्त्रं स्कन्दश्च प्राक्षिपच्च त्वरान्वितः
पपात दण्डवद्भूमौ प्रद्युम्नः कृष्णशिक्षया । स्कन्दः शक्तिं च चिक्षेप प्रलयग्निसमप्रभाम्
कामो नारायणास्त्रेण निर्वाणं च चकार ताम् । ब्रह्मास्त्रं च प्रचिक्षेप कार्तिको रणमूर्धनि
ब्रह्मास्त्रेणापि कामश्च निर्वाणं च चकार सः । जग्राह कार्तिकं कोपाद्दिव्यं पाशुपतं तदा
निद्रास्त्रेणापि मदनो निद्रितं च चकार तम् । कार्तिकं निद्रितं दृष्ट्वा बाणं च जृम्भितं तथा
कोपात्कामं च सरथं जग्राह भद्रकालिका । क्रोडे कृत्वा च बाणं च स्कन्दं च जगतां प्रसूः
रणस्थलाच्च प्रययौ यत्रैव पार्वती सती । कार्तिकं बोधयामास बाणं सुस्थं चकार सा
सहसासरथः कामो नासारन्ध्रेण वर्त्मना । बहिर्बभूव संत्रस्तः प्रययौ च रणस्थलम्
दृष्ट्का कामं च सरथं जहसुर्यादवास्तदा । सर्वे शैवाश्च तत्रस्थाः शुष्ककण्ठा भयकुलाः
अथ बाणः पुनः क्रुद्धो रथमारुह्य कोपतः । कार्तिकेयश्च भगवान्युद्धाय पुनरागतः
बाणः पञ्च शरांश्चैव चिक्षेप रणमूर्धनि । अर्धचन्द्रेण चिच्छेद बलदेवो महाबलः
रथं बभञ्ज बाणस्य लाङ्गलेन च लाङ्गली । जघन सूतमश्वांश्च मुसलेनावलीलया
कुर्वन्तमुद्यमं छेत्तुं हलिनं च महाबलः । कालाग्निरुद्रो भगवान्वारयामास लीलया
रथं कालाग्निरुद्रस्य बभञ्ज लाङ्गली रुषा । हलेन सूतमश्वाश्च जधान रणमूर्धनि
कालाग्निरुद्रः कोपेन चिक्षेप जवरमुल्वणम् । बभूवुर्यादवाः सर्वे ज्वराक्रान्ता हरिं विना
तं दृष्ट्वा भगवान्कृष्णः ससर्ज वैष्णवं ज्वरम् । तं चिक्षेप ज्वरं हन्तुं माहेशं रणमूर्धनि
बभूव ज्वरयोर्युद्धं मुहूर्तमतिदारुणम् । वैष्णवज्वरनिष्कान्तो रणमीर्ध्नि पपात सः
ज्वर उवाच प्रणान्रक्ष जगन्नाथ भक्तानुग्रहविग्रह । त्वमात्मा पुरुषः पुर्णः सर्वत्र समता तव
ज्वरस्य वचनं श्रुत्वा संजहार स्वकं ज्वरम् । माहेश्वरो ज्वरो भीतो रणादेव हि निर्ययौ