स स्तयं सर्वदानानां फलं च लभते ध्रुवम् । लक्षधा स्तोत्रपाठेन स्तोत्रसिद्धिर्भवेन्नृणाम्
सर्वसिद्धिं च लभते सिद्धिस्तोत्रो भवेद्यदि । इहलोके देवतुल्योऽप्यन्ते याति हरेः पदम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे बलिकृतश्रीकृष्णम्तोत्रं नामैकोनविंशत्यधिकशततमोऽध्यायः
विंशत्यधिकशततमोऽध्यायः नारायण उवाच अथ कृष्णश्च भगवानुद्धवेत बलेन च । दूतं प्रश्थापयामास विधाय मन्त्रणं शुभम्
शिवो गणपतिर्यत्र दुर्गां दुर्गतिनाशिनी । कार्तिकेयो भद्रकाली चोग्रचण्डा च कोटरी
आगत्य नत्वा दूतश्च गणेशं च शिवं शिवाम् । मानवांश्चापि पूच्यांश्च समुवाच यथोचितम्
दूत उवाच बाणमाह्वयते कृष्णः संग्रामार्थ महेश्वर । किं वाऽनिरुद्धमूषां च गृहीत्वा शरणं व्रज
रणे निमन्त्रितो यो हि न याति भयकातरः । परत्र नरकं याति सप्तभिः पितृभिः सह
दूतस्य वचनं श्रुत्वा सभामध्ये यथोचितम् । उवाच पार्वती देवी स्वयं शंकरसंनिधौ
पार्वत्युवाच गच्छ बाण महाभाग गृहीत्वा तव कन्यकाम् । सर्वस्वं यौतकं दत्त्वा श्रीकृष्णं शरणं व्रज
सर्वेषामीश्वरं बीजं दातारं सर्वसंपदम् । वरं वरेप्यं शरणं कृपालुं भक्तवत्सलम्
पार्वतीवचनं श्रुत्वा तमूचुस्ते सुरेश्वराः । प्रशसंसुःसभामध्ये धन्यधन्येति सर्वदा
कोपाविष्टश्च बाणोऽयमुत्तस्थौ सहसाऽसुरः । सांनाहिको धनुष्पाणिः प्रणम्य शंकरं ययौ
सर्वैर्निषिध्यमानश्च कम्पितो रक्तलोचनः । सांनाहिकश्च दैत्यानां त्रिकोट्या च महाबलः
कुम्भाण्डः कूपकर्णश्च निकुम्भः कुम्भ एव च । सेनापतीश्वरश्चैते ययुः सांनाहिकास्तथा
उन्मत्तभैरवश्चैव संहारभैरवस्तथा । असिताङ्गो भैरवश्च रुरुभैरव एव च
महाभैरवसंज्ञश्च कालभैरव एव च । प्रचण्डभैरवश्चैव क्रोधभैरव एव च
प्रययुः शक्तिभिः सार्ध सर्वे सांनाहिकाश्च ते । कालाग्गिरुद्रो भगवान्रुद्रैः सांनाहिको ययौ
उग्रचण्डा प्रचण्डा च चण्डिका चण्डिनायिका । चण्डेश्वरी च चामुण्डा चण्डी चण्डकपालिका
अष्टौ च नायिकाः सर्वाः प्रययुः खर्पराविन्ताः । कोटरी रत्नयानस्था शोणितग्रामदेवता
प्रययौ सा प्रफुल्लास्या खड्गखर्परधारिणी । इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी
कौमारी नारसिंही च वाराही विकटाकृतिः । माहेश्वरी महामाया भैरवी भीमरूपिणी
अष्टौ च शक्तयः सर्वा रथस्थाः प्रययुर्मुदा । रत्नेन्द्रसारयानस्था प्रययौ भद्रकालिका
रक्तवर्णा त्रिनयना जिह्वाललनभीषणा । शूलशक्तिगदाहस्ता खड्गखर्परधारिणी
प्रययौ शूलहस्तश्च वृषभस्थो महेश्वरः । स्कन्दश्च शिखियानस्थः शस्त्रपाणिर्धनुर्धरः
एवं च प्रययुः सर्वे गणेशं पार्वतीं विना । एभिर्युक्तं महादेवं दृष्ट्वा च भद्रकालिकाम्
प्रचक्रे चक्रपाणिश्च संभाषां च यथोचिताम् । बाणः शङ्कध्वनिं कृत्वा प्रणम्य पार्वतीश्वरम्
धनुर्दथार सगुणं दिव्यास्त्रेण नियोजितम् । बाणं समुद्यतं दृष्ट्वा सात्यकिः परवीरहा
निषिध्यमानस्तैः सर्वैः संनाही प्रययौ मुदा । बाणश्चिक्षेप दिव्यास्त्रमञ्जनं नाम नारद
अव्यर्थं ग्रीष्ममध्याहनमार्तण्डाभं सुतीक्ष्णकम् । दृष्टावाऽस्त्रं सात्यकिः साक्षात्किंचिन्नम्रो बभूव सः