गोपबालकवेषं च राधावक्षः स्थलस्थितम् । ध्यानासाध्यं दुराराध्यं ब्रह्मेशशेषवन्दितम्
सिन्द्धेन्द्रैश्च मुनीन्द्रैश्च योगीन्द्रैः प्रणतं स्तुतम् । वेदानिर्वचनीयं च परं स्वेच्छामयं विभुम्
स्थूलस्थूलतमं रूपं सूक्ष्मात्सूक्ष्मतमं परम् । सत्यं नित्यं प्रशस्तं च प्रकृतेः परमीश्वरम्
निर्लिप्तं च निरीहं च भगवन्तं सनातनम् । एवं ध्यात्वा च ते पूताः स्निग्धदूर्वाक्षता जलम्
पद्मापद्मार्चिते पादपद्मे च दातुमुत्सुकाः । वेदाःस्तोतुमशक्तास्त्वामशक्ता सा सरस्वती
शेषः स्तोतुमशक्तश्च स्वयंभूः शंभुरीश्वरः । गणेशश्च दिनेशश्च महेन्द्रश्चन्द्र एव च
स्तोतुं नालं धनेशश्च किमन्ये जड्बुद्धयः । गुणातीतमनीहं च किं स्तौमि निर्गुणं परम्
अपण्डितोऽयमसुरो न सुरः क्षन्तुमर्हसि । बलेस्तद्वचनं श्रुत्वा तमुवाच जगत्पतिः
श्रीभगवानुवाच मा भैर्वत्स गृहं गच्छ सुतलं रक्षितं मया । मद्वरेण प्रसादेन त्वत्पुत्रोऽप्यजरामरः
दर्पहानिं करिष्यामि तस्य मूर्खस्य दर्पिणः । प्रह्लादाय वरो दत्तो भक्ताय च तपस्विने
ममावध्यश्च त्वद्वंशश्चेति प्रीतेन चेतसा । तव पुत्राय दास्यामि ज्ञानं मृत्युंजयं परम्
त्वया कृतिमिदं स्तोत्रं सामवेदोक्तमीप्सितम् । पुरा सनत्कुमाराराय प्रदत्तं ब्रह्मणा तथा
सिद्धाश्रमे पुण्यतमे प्रशस्ते सूर्यपर्वणि । गौतमाय प्रदत्तं च गौर्या मन्दाकिनीतटे
शंकरेण च शिष्याय भक्ताय च दयालुना । ब्रह्मणे च मया दत्तं शिवाय विरजातटे
भृगवे च पुरा दत्तं कुमारेण च धीमता । त्वं च दास्यसि बाणाय बाणः स्तोष्यत्यनेन माम्
इदं स्तोत्रं महापुण्यमुबदिश्य गुरोर्मुखात् । वृतस्य पूजितस्यापि वस्त्रभूषणचन्दनैः
सुस्नातो यः पठेन्नित्यं पूजाकाले च भक्तितः । कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः
विपदां खण्डनं स्तोत्रं कारणं सर्वसंपदाम् । वारणं दुःखशोकानां भवाब्धिधोरतारणम्
खण्डनं गर्भवासानां जरामृत्युहरं परम् ।बन्धनानां च रोगाणां खण्डनं भक्तमण्डनम्
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । व्रती व्रतेषु सर्वेषु तपस्वी च तपःसु च
स स्तयं सर्वदानानां फलं च लभते ध्रुवम् । लक्षधा स्तोत्रपाठेन स्तोत्रसिद्धिर्भवेन्नृणाम्
सर्वसिद्धिं च लभते सिद्धिस्तोत्रो भवेद्यदि । इहलोके देवतुल्योऽप्यन्ते याति हरेः पदम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे बलिकृतश्रीकृष्णम्तोत्रं नामैकोनविंशत्यधिकशततमोऽध्यायः
विंशत्यधिकशततमोऽध्यायः नारायण उवाच अथ कृष्णश्च भगवानुद्धवेत बलेन च । दूतं प्रश्थापयामास विधाय मन्त्रणं शुभम्
शिवो गणपतिर्यत्र दुर्गां दुर्गतिनाशिनी । कार्तिकेयो भद्रकाली चोग्रचण्डा च कोटरी
आगत्य नत्वा दूतश्च गणेशं च शिवं शिवाम् । मानवांश्चापि पूच्यांश्च समुवाच यथोचितम्
दूत उवाच बाणमाह्वयते कृष्णः संग्रामार्थ महेश्वर । किं वाऽनिरुद्धमूषां च गृहीत्वा शरणं व्रज
रणे निमन्त्रितो यो हि न याति भयकातरः । परत्र नरकं याति सप्तभिः पितृभिः सह
दूतस्य वचनं श्रुत्वा सभामध्ये यथोचितम् । उवाच पार्वती देवी स्वयं शंकरसंनिधौ
पार्वत्युवाच गच्छ बाण महाभाग गृहीत्वा तव कन्यकाम् । सर्वस्वं यौतकं दत्त्वा श्रीकृष्णं शरणं व्रज