कालाग्निरुद्रो भगवान्विश्वचसंहारकारकः । तमसश्चाऽऽश्रयः सोऽपि रुद्राणां प्रवरो महान्
स एव शंकरांशश्चाप्यन्ये रुद्राश्च तत्कलाः । भवांश्च निर्गुणस्तेषां प्रकृतेश्च परस्तथा
सर्वेषां परमात्मा वै प्रणा विष्णुस्वरूपिणः । मानसं च स्वयं ब्रह्मा स्वयं ज्ञानात्मकः शिवः
प्रवरा सर्वशक्तीनां बुद्धिः प्रकृतिरीश्वरी । स्वात्मनः प्रतिबिभ्बस्ते जीवः सर्वेषु देहिषु
जीवः स्वकर्मणां भोगी स्वयं साक्षी भवांस्तथा । सर्वे यान्ति त्वयि गते नरदेवे यथाऽनुगाः
सद्यः पतति देहश्च शवोऽस्पृश्यस्त्वया विना । बुद्धाः सन्तो न जानन्ति वञ्चितास्तव मायया
त्वां भजन्त्येव ये सन्तो मायामेतां तरन्ति ते । त्रिगुणा प्रकृतिर्दुर्गा वैष्णवी च सनातनी
परा नारायणीशानी तव माया दुरत्यया । त्वदंशाः प्रतिविश्वेषु ब्रह्मविष्णुशिवात्मकाः
सर्वेषामपि विश्वेषामाश्रयो यो महान्विराट् । स सेते च जले योगाद्विश्वेशो गोकुले यथा
स एव वासुर्भगवांस्तस्य देवो भवान्परः । वासुदेव इति ख्यातः पुराविद्भिः प्रकीर्तितः
त्वमेव कलया सूर्यस्त्वमेव कलया शशी । कलया च हुताशश्च कलया पवनः स्वयम्
कलया वरुणश्चैव कुबेरश्च यमस्तथा । कलया त्वं महेन्द्रश्च कलया धर्म एव च
त्वमेव कलया शेष ईशानो नैऋंतिस्तथा । मुनयो मनवश्चैव ग्रहाश्च फलदायकः
कलाकलायाश्चांशेन सर्वे जीवाश्चराचराः । त्वं ब्रह्म परमं ज्योतिर्ध्यायन्ते योगिनः सदा
तं त्चाऽऽद्रियन्ते भक्तास्ते ध्यायन्ते य तदन्तरे । नवीननीरदश्यामं पीतकौशेयवाससम्
ईषद्धास्यप्रसन्नास्यं भक्तेशं भक्तवत्सलम् । चन्दनोक्षितसर्वाङ्गं द्विभुजं मुरलीधरम्
मयूरपिच्छचूडं च मालतीमाल्यभूषितम् । अमूल्यरत्ननिर्माणकेयूरवलयाविन्तम्
मणिकुण्डलयुग्मेन गण्डस्थलविराजितम् । रत्नसाराङ्गलीयं च क्वणन्मञ्जीररञ्जितम्
कोटिकन्दर्पलीलाभं शरत्कमललोचनम् । शरत्पूर्णैन्दुनिन्दास्यं चन्द्रकोटिसमप्रभम्
वीक्षितं सस्मिताभिश्च गोपीनां कोटिकोटिभिः । वयस्यैः पार्षदैर्गोपैः सेवितं श्वेतचामरैः
गोपबालकवेषं च राधावक्षः स्थलस्थितम् । ध्यानासाध्यं दुराराध्यं ब्रह्मेशशेषवन्दितम्
सिन्द्धेन्द्रैश्च मुनीन्द्रैश्च योगीन्द्रैः प्रणतं स्तुतम् । वेदानिर्वचनीयं च परं स्वेच्छामयं विभुम्
स्थूलस्थूलतमं रूपं सूक्ष्मात्सूक्ष्मतमं परम् । सत्यं नित्यं प्रशस्तं च प्रकृतेः परमीश्वरम्
निर्लिप्तं च निरीहं च भगवन्तं सनातनम् । एवं ध्यात्वा च ते पूताः स्निग्धदूर्वाक्षता जलम्
पद्मापद्मार्चिते पादपद्मे च दातुमुत्सुकाः । वेदाःस्तोतुमशक्तास्त्वामशक्ता सा सरस्वती
शेषः स्तोतुमशक्तश्च स्वयंभूः शंभुरीश्वरः । गणेशश्च दिनेशश्च महेन्द्रश्चन्द्र एव च
स्तोतुं नालं धनेशश्च किमन्ये जड्बुद्धयः । गुणातीतमनीहं च किं स्तौमि निर्गुणं परम्
अपण्डितोऽयमसुरो न सुरः क्षन्तुमर्हसि । बलेस्तद्वचनं श्रुत्वा तमुवाच जगत्पतिः
श्रीभगवानुवाच मा भैर्वत्स गृहं गच्छ सुतलं रक्षितं मया । मद्वरेण प्रसादेन त्वत्पुत्रोऽप्यजरामरः
दर्पहानिं करिष्यामि तस्य मूर्खस्य दर्पिणः । प्रह्लादाय वरो दत्तो भक्ताय च तपस्विने