तीर्थान्यपि च पूतानि वैष्णवस्पर्शमात्रतः । सर्वेषामाश्रमाणां च पूजितो ब्राह्मणः शुचिः
ततोऽधिकः पूजितोऽपि ब्राह्मणो यदि वैष्णवः । न हि पूतं च पश्यमि वैष्णवब्राह्मणात्परम्
स पूतः पवनादेव स पूतश्च हुताशानात् । तीर्थेम्योऽपि च सर्वेभ्यो बिभेति च ततः सुरः
न हि पापानि तद्देहे वह्नौ शुष्कतृणादिवत्
बलिरुवाच कथं स्तौषि जगन्नाथ भृत्यमस्तव्यमीश्वरः । प्रदत्तं परमेश्वर्य त्वया नाथ सुदुल्रभम्
अधुना स्थापितो दैवात्सर्वाधः सुतलेऽपि च । इन्द्राय दत्तमैश्वर्य मत्तो भक्तात्सुरेश्वर
त्वया वामनरूपेण सर्वरूपोऽसि सर्वतः । बाणं बोधय भद्रं च मम प्राणात्मजं परम्
आत्मना सह युद्धं च देवेष्वपि विगर्हितम् । इत्युक्त्वा च शिवं नत्वा शिरसा प्रणनाम तम्
सामवेदोक्तस्तोत्रेण तुष्टाव परमेश्वरम् । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रोऽतिविह्वलः
ध्यायमानश्च नित्यं यो हृत्पद्मे सुमनोहरे । शुक्रेण दत्तं मन्त्रं च जप्त्वा चैकादशाक्षरम्
बलिरुवाच अदित्याः प्रार्थनेनैव मातुर्देव्या व्रतेन च । पुरा वामनरूपेण त्वयाऽहं वञ्चितः प्रभो
संपद्रूपा महालक्ष्मीर्दत्ता भक्ताय भक्तितः । शक्राय मत्तो भक्ताय भ्रात्रे पुण्यवते ध्रुवम्
अधुना मम पुत्रोऽयं बाणः शंकरकिंकरः । आराच्च रक्षितः सोऽपि तेनैव भक्तबन्धुना
परिपुष्टश्च पार्वत्या यथा मात्रा सुतस्तथा । गृहीतवांश्च तत्कन्यां बलेन युवतीं सतीम्
समुद्यतश्च तं हन्तुं कार्तिकेनापि वारितः । आगतोऽसि पुनर्हन्तुं पौत्रस्य दमने क्षमः
सर्वात्मनश्च सर्वत्र समभावः श्रुतौ श्रुतः । करोषि जगतां नाथ कथमेवं व्यतिक्रमः
त्वया च निहतो यो हि तस्य को रक्षिता भुवि । सुदर्शनस्य तेजो हि सूर्यकोटिनिभं परम्
केषां सुराणामस्त्रेण तदेव च निवारितम् । यथा सुदर्शनं चैवमस्त्राणां प्रवरं वरम्
तथा भवांश्च देवानां सर्वेषामीश्वरः परः । यथा भवांस्तथा कृष्णो विधाता वेधसामपि
विष्णुः सत्त्वगुणाधारः शिवः सत्त्वाश्रयस्तथा । स्वयं विधाता रजसः सृष्टिकर्ता पितामहः
कालाग्निरुद्रो भगवान्विश्वचसंहारकारकः । तमसश्चाऽऽश्रयः सोऽपि रुद्राणां प्रवरो महान्
स एव शंकरांशश्चाप्यन्ये रुद्राश्च तत्कलाः । भवांश्च निर्गुणस्तेषां प्रकृतेश्च परस्तथा
सर्वेषां परमात्मा वै प्रणा विष्णुस्वरूपिणः । मानसं च स्वयं ब्रह्मा स्वयं ज्ञानात्मकः शिवः
प्रवरा सर्वशक्तीनां बुद्धिः प्रकृतिरीश्वरी । स्वात्मनः प्रतिबिभ्बस्ते जीवः सर्वेषु देहिषु
जीवः स्वकर्मणां भोगी स्वयं साक्षी भवांस्तथा । सर्वे यान्ति त्वयि गते नरदेवे यथाऽनुगाः
सद्यः पतति देहश्च शवोऽस्पृश्यस्त्वया विना । बुद्धाः सन्तो न जानन्ति वञ्चितास्तव मायया
त्वां भजन्त्येव ये सन्तो मायामेतां तरन्ति ते । त्रिगुणा प्रकृतिर्दुर्गा वैष्णवी च सनातनी
परा नारायणीशानी तव माया दुरत्यया । त्वदंशाः प्रतिविश्वेषु ब्रह्मविष्णुशिवात्मकाः
सर्वेषामपि विश्वेषामाश्रयो यो महान्विराट् । स सेते च जले योगाद्विश्वेशो गोकुले यथा
स एव वासुर्भगवांस्तस्य देवो भवान्परः । वासुदेव इति ख्यातः पुराविद्भिः प्रकीर्तितः