महादेव उवाच त्वया यधक्तं देवेशि सर्व वेदोक्तमीप्सितम् । अयुक्तमुपहास्यं व समरं परमात्मना
बाणो ददातु कन्यां दां स्वर्णभूषणभूषिताम् । सामञ्जस्यं यशस्यं च शुभदं सर्वकर्मसु
न ददाति यदा बाणो हिरण्यकशिपोः प्रजा । युद्धे पराङ्मुखो भीतो भगवत्ययशस्करः
बाणो गच्छतु संनाही रणशास्रविशारदः । पश्चाच्चा ऽऽगमनं कुर्मो वयं सांनाहिकाः शिवे
उवाच बाणं तां दातुं स च न स्वीचकार ह । दुर्गा तं बोधयामास न बुबोध च सद्वचः
एतस्मिन्नन्तरे तां च सभामेव महोरमाम् । आजगाम महाधर्मो बलिश्च वैष्णवाग्रणीः
रथं लत्नेन्द्रनिर्माणं समारुह्य महाबलः । प्रतप्तैः सप्तभिर्दैत्यैः सेवितः श्वेतचामरैः
दैत्येन्द्राणां सप्तलक्षैरावृतः परमास्त्रवित् । अवरुह्य रथात्तूर्णं गणेशं च शिवां शिवाम्
प्रणम्य कार्तिकेयं च स उवास च संसदि । उत्तस्थुरारात्तं दृष्ट्वा ते सर्वे शंकरं विना
महादेव उवाच भगवंश्चतुरस्त्वं च प्रदाता सर्वसंपदाम् । अयं हि परमो लाभो वैष्णवानां समागमः
तीर्थान्यपि च पूतानि वैष्णवस्पर्शमात्रतः । सर्वेषामाश्रमाणां च पूजितो ब्राह्मणः शुचिः
ततोऽधिकः पूजितोऽपि ब्राह्मणो यदि वैष्णवः । न हि पूतं च पश्यमि वैष्णवब्राह्मणात्परम्
स पूतः पवनादेव स पूतश्च हुताशानात् । तीर्थेम्योऽपि च सर्वेभ्यो बिभेति च ततः सुरः
न हि पापानि तद्देहे वह्नौ शुष्कतृणादिवत्
बलिरुवाच कथं स्तौषि जगन्नाथ भृत्यमस्तव्यमीश्वरः । प्रदत्तं परमेश्वर्य त्वया नाथ सुदुल्रभम्
अधुना स्थापितो दैवात्सर्वाधः सुतलेऽपि च । इन्द्राय दत्तमैश्वर्य मत्तो भक्तात्सुरेश्वर
त्वया वामनरूपेण सर्वरूपोऽसि सर्वतः । बाणं बोधय भद्रं च मम प्राणात्मजं परम्
आत्मना सह युद्धं च देवेष्वपि विगर्हितम् । इत्युक्त्वा च शिवं नत्वा शिरसा प्रणनाम तम्
सामवेदोक्तस्तोत्रेण तुष्टाव परमेश्वरम् । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रोऽतिविह्वलः
ध्यायमानश्च नित्यं यो हृत्पद्मे सुमनोहरे । शुक्रेण दत्तं मन्त्रं च जप्त्वा चैकादशाक्षरम्
बलिरुवाच अदित्याः प्रार्थनेनैव मातुर्देव्या व्रतेन च । पुरा वामनरूपेण त्वयाऽहं वञ्चितः प्रभो
संपद्रूपा महालक्ष्मीर्दत्ता भक्ताय भक्तितः । शक्राय मत्तो भक्ताय भ्रात्रे पुण्यवते ध्रुवम्
अधुना मम पुत्रोऽयं बाणः शंकरकिंकरः । आराच्च रक्षितः सोऽपि तेनैव भक्तबन्धुना
परिपुष्टश्च पार्वत्या यथा मात्रा सुतस्तथा । गृहीतवांश्च तत्कन्यां बलेन युवतीं सतीम्
समुद्यतश्च तं हन्तुं कार्तिकेनापि वारितः । आगतोऽसि पुनर्हन्तुं पौत्रस्य दमने क्षमः
सर्वात्मनश्च सर्वत्र समभावः श्रुतौ श्रुतः । करोषि जगतां नाथ कथमेवं व्यतिक्रमः
त्वया च निहतो यो हि तस्य को रक्षिता भुवि । सुदर्शनस्य तेजो हि सूर्यकोटिनिभं परम्
केषां सुराणामस्त्रेण तदेव च निवारितम् । यथा सुदर्शनं चैवमस्त्राणां प्रवरं वरम्
तथा भवांश्च देवानां सर्वेषामीश्वरः परः । यथा भवांस्तथा कृष्णो विधाता वेधसामपि
विष्णुः सत्त्वगुणाधारः शिवः सत्त्वाश्रयस्तथा । स्वयं विधाता रजसः सृष्टिकर्ता पितामहः