महाकालो वीरभद्रो ये चान्यो सैनिकास्तथा । ऊर्ध्वे दुर्गा भद्रकाली ह्यग्रण्डा च कोटरी
बाणं रक्ष महाभागे दुर्गे दुर्गतिनाशिनि । कृष्णस्य भवती शक्तिस्तेन नारायणी स्मृता
विष्णुमाये जगन्मातः सर्वमङ्गलमङ्गले । अव्यर्थाच्चक्रसारच्च रक्ष बाणं सुदर्शनात्
बाणः प्रियो मे सर्वेम्यो गणेशात्कार्तिकादपि । बाणमूर्ध्नि करं धेहि पादाब्जरजसा सह
शिवस्य वचनं श्रुत्वा दुर्गा दुर्गतिनाशिनी । प्रहस्योवाच मधुरं याथार्थ्यं समयोचितम्
पार्वत्युवाच मणिरत्नादिकं यद्यन्मुक्तामाणिक्यहीरकम् । सर्वस्वं कन्यकामूषां रत्नभूषणभूषिताम्
रत्नभूषणभूषाढ्यमनिरुद्धं परं वरम् । पुरस्कृत्य देहि बाण कृष्णाय परमात्मने
राज्यं कुरुष्व निर्विघ्नं किं युद्धमात्मना सह । यस्मिन्गते गताः प्राणाः क जीवश्चैन्द्रियैः सह । शक्तिश्चाहं मनो ब्रह्मा स्वयं ज्ञानात्मकं शिवः
सद्यः पतति देहश्च शिवं त्यक्त्वा शवो भवेत् । को वा तिष्ठति संग्रामे चक्रस्य तेजसा शिव
नाऽऽत्माऽऽकाशो बाणविद्धो युद्धं किं स्वात्मना सह । परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः
नित्यः सत्यो हि कृष्णश्च परिबूर्णतमः प्रभुः । गणेशः कार्तिकेयश्च भवानपि तयोः परः
किंकरेषु प्रियो बाणो न हि कृष्णात्परः प्रियः । वैकुण्ठेऽहं महालक्ष्मीर्गोलोके राधिका स्वयम्
शिवाऽहं शिवलोकेऽपि ब्रह्मलोके सरस्वती । अहं निहत्य दैत्यांश्च दक्षकन्या सती पुरा
त्वन्निन्दया त्यक्तदेहा सा चाहं शैलकन्यका । रक्तबीजस्य युद्धे च कानी च मूर्तिभेदतः
सावित्री वेदमाताऽहं सीता जनककन्यका । रुक्मिणी द्वारवत्यां च भारते भीष्मकन्यका
सुदाम्नः शापतो दैवाद्वृषभानसुताऽधुना । धर्मपत्नी च कृष्णस्य पुण्ये वृन्दावने वने
भगवन्तं च सर्वज्ञं त्वां शिवं च सनातम् । किं वाऽहं कथयामीति कर्तव्यं समयोचितम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धेऽष्टाद- शाधिकशततमोऽध्यायः
अथैकोनविंशत्यधिकशततमोऽध्यायः नारायण उवाच पार्वतीवचनं श्रुत्वा गमेशश्च शिवः स्वयम् । कार्तिकेयश्च काली च तां प्रशंसां चकार ह
उवाच भगवाञ्शंभुर्जगतां मातरं पराम् । ज्योतिः स्वरूपां परमां मूलप्रकृतिमीश्वरीम्
महादेव उवाच त्वया यधक्तं देवेशि सर्व वेदोक्तमीप्सितम् । अयुक्तमुपहास्यं व समरं परमात्मना
बाणो ददातु कन्यां दां स्वर्णभूषणभूषिताम् । सामञ्जस्यं यशस्यं च शुभदं सर्वकर्मसु
न ददाति यदा बाणो हिरण्यकशिपोः प्रजा । युद्धे पराङ्मुखो भीतो भगवत्ययशस्करः
बाणो गच्छतु संनाही रणशास्रविशारदः । पश्चाच्चा ऽऽगमनं कुर्मो वयं सांनाहिकाः शिवे
उवाच बाणं तां दातुं स च न स्वीचकार ह । दुर्गा तं बोधयामास न बुबोध च सद्वचः
एतस्मिन्नन्तरे तां च सभामेव महोरमाम् । आजगाम महाधर्मो बलिश्च वैष्णवाग्रणीः
रथं लत्नेन्द्रनिर्माणं समारुह्य महाबलः । प्रतप्तैः सप्तभिर्दैत्यैः सेवितः श्वेतचामरैः
दैत्येन्द्राणां सप्तलक्षैरावृतः परमास्त्रवित् । अवरुह्य रथात्तूर्णं गणेशं च शिवां शिवाम्
प्रणम्य कार्तिकेयं च स उवास च संसदि । उत्तस्थुरारात्तं दृष्ट्वा ते सर्वे शंकरं विना
महादेव उवाच भगवंश्चतुरस्त्वं च प्रदाता सर्वसंपदाम् । अयं हि परमो लाभो वैष्णवानां समागमः