मया प्रस्थापितः स्कन्दो महायुद्धे सुदारुणे । मृतो बाणश्च संग्रामे तेन स्कन्देन रक्षितः
स्कन्दानिरुद्धयोर्युद्धे समत्वं तु गणेश्वर । अष्टौ च भैरवाः सर्वे रुद्राश्चैकादशैव ते
अष्टौ च वसवश्चैते देवाः शक्रादयस्तथा । तथैव द्वादशादित्याः सर्वे दैत्येश्वरास्तथा
देवानामग्रणीः स्कन्दो बाणश्च सगणस्तथा । सर्वे ते चानिरुद्धं च संग्रामे जेतुमक्षमाः
अनिरुद्धः स्वयं ब्रह्मा प्रद्युम्नः काम एव च । बलदेवः स्वयं शेषः कृष्णश्च प्रकृतेः परः
एतत्ते कथितं सर्वं बाणं रक्ष गणेश्वर । भवाञ्शुभस्वरूपश्च विघ्नखण्डनकारकः
आरादायास्यति हरिर्गृहीत्वा च सुदर्शनम् । अव्यर्थमस्त्रप्रवरं सूर्यकोटिसमप्रभम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे शिवलम्बोदरसंo सप्तदशाधिकशाततमोऽध्यायः
अथाष्टादशाधिकशततमोऽध्यायः नारायण उवाच गणेशं बोधयित्वा तु शंभुरम्यन्तरं ययौ । तत्र सिंहासने रम्ये दुर्गा दुर्गतिनाशिनी
भैरवी भद्रकाली च उग्रचण्डा च कोटरी । ताः समुत्थाय सहसा प्रणेमुर्जगदीश्वम्
तत्राऽऽययौ गणेशश्च कार्तिकेयश्च वीर्यवान् । बाणश्च वीरभद्रश्च स्वयं नन्दी सुनन्दकः
महाकालो महामन्त्री ह्यथाष्टौं भैरवास्तथा । सिद्धेन्द्राश्चापि योगीन्द्रा रुद्राश्चैकादशैव ते
एतस्मिन्नन्तरे तत्र मणिभद्रः समाययौ । सिहद्वारे स्वयं द्वारी तभीश्वरमुवाच सः
मणिभद्र उवाच असंख्यानि च सैन्यानि यादवानां महेश्वर । बलदेवश्च प्रद्युम्नः साम्बश्च सात्यकिस्तथा
राजा महोग्रसेनश्च भीमश्च स्वयमर्जुनः । अक्रूनश्चोद्यवश्चैव जयन्तः शक्रनन्दनः
रत्नेनद्रसारनिर्माणरथेन्द्रे सुमनोहरे । विधेर्विधाता भगवाञ्छ्रीकृष्णः परमेश्वरः
सप्तभिः पार्षदैगोंपैः सेवितः श्वेतयामरैः । कन्दर्पकोटिलीलाभो वनमालाविभूषितः
दधार चक्रमतुलं कोटिसूर्यसमप्रभम् । गदां कौमोदकीं शूलमव्यर्थं संनिधाय च
रथमध्ये महाशङ्खं विश्वसंहारकारणम् । महारथानां लक्षैश्च रथानां च त्रिकोटिभिः
त्रिकोटिभिर्गजेन्द्राणां मल्लानां च त्रिकोटिमिः । शतकोटिभिरश्वानां चर्मिणां तच्चतुर्गुणैः
खड्गिनां तत्सप्तगुणैर्द्विगुणैस्तद्धनुष्मताम् । एभिः सार्ध च त्वरितमाययौ शोणितं पुरम्
परितो वेष्टयामास लङ्कां दाशरथिर्यथा । सहस्रतालमानां च ज्वलदग्निशिखोज्ज्वलाम्
ऊर्ध्वे च परिखायुक्तां दुर्लङ्ध्यामसुरैः सुरैः । स्वर्गगङ्गाम्बुराशीनां समूहैर्वृष्टिभिस्तथा
पक्षीन्द्रो गरुडः साक्षान्निर्वाणं च चकार सः । मणीन्द्रसारनिर्माणं प्राकाराभ्रंलिहं पुरम्
बभञ्ज लक्षं मल्लानां बलदेवश्च लाङ्गलैः । उद्यानानां त्रिलक्षं च चकारोत्पाटनं प्रभो
प्रविवेश महाद्वारं द्वारपालान्निपत्य च । एवं श्रुत्वा महादेवश्चोवाच सुरसंसदि
पार्वती भद्रकाली च स्कन्दं गणपतिं तथा । अष्टौ च भैरवांश्चैव रुद्राश्च वीरभद्रकम् महाकालं नन्दिनं च सर्वान्सेनापतीन्नव
महादेव उवाच गोलोकनाथो भगवांश्चक्रपाणिः समागतः । विश्वौघं भङ्क्तुमीशो यः क्षणेन नगरं च किम्
सर्वोपायैश्च सर्वे ते बाणं रक्षन्तु यत्नतः । बाणो गच्छतु संग्रामं स्मृत्वा लम्बोदरं परम्
बाणस्य दक्षिणो स्कन्दः पुरतश्च गणेश्वरः । वामे च भैरवा रुद्राः स्वयं नन्दी सहारथः