अनिरुद्धोऽर्धचन्द्रेण क्षुरधारेण लीलया । चिच्छेद कार्तिकधनुर्भल्लास्त्रेण नियोजितम्
जधान कार्तिकस्तं च गदया च दुरन्तया । गदां जग्राह तद्धस्ताज्जवेन मदनात्मजः
शूलं गृहीत्वा स्कन्दं च तमेव हन्तुमु द्यतम् । अनिरुद्धश्च कोपेन प्रेरयामास दूरतः
कार्तिकः पुनरागत्य गृहीत्वा कामपुत्रकम् । गृहीत्वा च करेणैव पातयामास भूतले
अनिरुद्धो गृहीत्वाऽसिं प्रभुस्तस्थौ महाबलः । तयोर्विरोधं दूरं च प्रचकार गणेश्वरः
कार्तिकः प्रययौ गेहमूषागेहं स्मरात्मजः । सर्व निवेदितुं शंभुं प्रययौ स गणेश्वरः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo बाणयुo षोडशाधिकशततमोऽध्यायः
अथ सप्तदशाधिकशततमोऽध्यायः नारायण उवाच गणेशस्तु शिवस्थानं गत्वा नत्वा महेश्वरम् । सर्व विज्ञापयामास क्रमेण च पृथक्पृथक्
बाणानिरुद्धयोर्युद्धं सुभद्रनिधनं तथा । स्कन्दानिरुद्धयोर्युद्धमनिरुद्धस्य विक्रमम्
गणेशवचनं श्रुत्वा प्रहस्य भगवान्भवः । उवाच श्लक्ष्णया वाचा सुगुप्तं वेदसंमतम्
महादेव उवाच गणेश्वर महाभाग श्रूयतां वचनं मम । हितं तथ्यं नीतिसारं परिणामसुखावहम्
असंख्यविश्वसंघं च सर्व कृष्णात्मजं सुतम् । कृष्णं जानीहि यत्कार्यं कारणानां च कारणम्
ब्रह्मादितृणपर्यन्तं जगत्मर्व गणेश्वर । निबोध सत्यं कृष्णं च भगवन्तं सनातनम्
गोलोके द्विभुजं शान्तं राधाकान्तं मनोहरम् । शिशुरूपं गोपवेषं गोपवेषं परिपूर्णतमं प्रभुम्
गोपीभिर्गोपनिकरैः सहितं कामधेनुभिः । पुण्ये वृन्दावने रम्ये सुन्दरे रासमण्डले
चरन्तं मुरलीहस्तं ब्रह्मेशशेषवन्दितम् । शतशृङ्गै च शैलेशे वटमूले निराकुले
गोष्ठे भाण्डीरनिकटे निर्मले विरजातटे । नवीननीरदश्यामं शोभितं पीतवाससा
यथा नवं घनौघं च सौदामिन्था विराजितम् । आविर्भावश्च तेषां वै गोलोके रासमण्डले
तावन्तो गोकुले रम्ये पुण्ये वृन्दावने वने । सर्वे चांशकलाः पुंसःकृष्णस्तु भगवान्स्वयम्
परिपूर्णतमः कामो ब्रह्मशापात्स्वविस्मृतः । तस्य पुत्रोऽनिरुद्धश्च महाबलपराक्रमः
मया प्रस्थापितः स्कन्दो महायुद्धे सुदारुणे । मृतो बाणश्च संग्रामे तेन स्कन्देन रक्षितः
स्कन्दानिरुद्धयोर्युद्धे समत्वं तु गणेश्वर । अष्टौ च भैरवाः सर्वे रुद्राश्चैकादशैव ते
अष्टौ च वसवश्चैते देवाः शक्रादयस्तथा । तथैव द्वादशादित्याः सर्वे दैत्येश्वरास्तथा
देवानामग्रणीः स्कन्दो बाणश्च सगणस्तथा । सर्वे ते चानिरुद्धं च संग्रामे जेतुमक्षमाः
अनिरुद्धः स्वयं ब्रह्मा प्रद्युम्नः काम एव च । बलदेवः स्वयं शेषः कृष्णश्च प्रकृतेः परः
एतत्ते कथितं सर्वं बाणं रक्ष गणेश्वर । भवाञ्शुभस्वरूपश्च विघ्नखण्डनकारकः
आरादायास्यति हरिर्गृहीत्वा च सुदर्शनम् । अव्यर्थमस्त्रप्रवरं सूर्यकोटिसमप्रभम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे शिवलम्बोदरसंo सप्तदशाधिकशाततमोऽध्यायः
अथाष्टादशाधिकशततमोऽध्यायः नारायण उवाच गणेशं बोधयित्वा तु शंभुरम्यन्तरं ययौ । तत्र सिंहासने रम्ये दुर्गा दुर्गतिनाशिनी
भैरवी भद्रकाली च उग्रचण्डा च कोटरी । ताः समुत्थाय सहसा प्रणेमुर्जगदीश्वम्