वरं वृणुष्व भद्रे त्वमुवाच शंकरश्च ताम् । उवाच शिवं व्यग्रा भर्तुर्दुःखेन दुःखिता
पतिं देहि पञ्चधा सा वरं वव्रे त्रिलोचनम् । सर्वसंपत्प्रदस्तुष्टस्तस्यै शर्वो वरं ददौ
महादेव उवाच साध्वि त्वं पञ्चधा ब्रूहि पतिं देहीति व्याकुला । पञ्चेन्द्राश्च हरेरंशा भविष्यन्ति प्रियास्तव
ते च सर्वे च पञ्चेन्द्राश्चाधुना पञ्च पाण्डवाः । सा च च्छाया द्रौपदी च यज्ञकुण्डसमुद्भवा
कृतयुगे वेदवती त्रेतायां जनकात्मजा । द्वापरे द्रौपदी छाया तेन कृष्णा त्रिहायणी
वैष्णपी कृष्णभक्ता च तेन कृष्णा प्रकीर्तिता । स्वर्गलक्ष्मीर्महेन्द्राणां सा च पश्चाद्भविष्यति
राजा ददौ फाल्गुनाय कन्यायाश्च स्वयंवरे । पप्रच्छ मातरं वीरो वस्तु प्राप्तं मयाऽधुना
तमुवाच स्वयं माता गृहाण भ्रातृभिः सह । शंभोर्वरेण पूर्व च परत्र मातुराज्ञया
द्रौपद्याः स्वामिनस्तेन हेतुना पञ्च पाण्डवाः । चतुर्दशानामिन्द्राणां पञ्चेन्द्राः पञ्च पाण्डवाः
शंकरेणाभिसंशप्ता सा मात्रा भर्त्सितेन च । भर्ताते भस्मसाद्भूतो हरकोपानलेन च
हे रति त्वं मया शप्ता दैत्यग्रस्ता भवाधुना । विजित्यदेवान्सेन्द्राश्च शम्बरस्त्वा हरिष्यति
पुनरुवतं वरं प्रादात्सतीत्वां ते न यास्यति । छायां दत्त्वा तिष्ठ गेहे यावज्जीवति ते पतिः
इति ते कथितं सर्वमितिहासं पुरातनम् । देवानां गुप्तचरितं श्रृणु दैत्येन्द्र सांप्रतम्
एतस्मिन्नन्तरे तत्र सुभद्रश्च महाबलः । कुम्भाण्डभ्राता बलवान्बाणसेनापतीश्वरः
निर्भत्सर्य बाणं समरे शस्त्रपाणिर्महारथः । श्रीकृष्णपौत्रं शूलं च चिक्षेप प्रलयाग्निवत्
अर्धयन्द्रेण तच्छूलं चिच्छेद कामपुत्रकः । शक्तिं चिक्षेप भद्रश्च शतसूर्यसमप्रभाम्
वैष्णवास्त्रेण चिच्छेद तां शक्तिं कामपुत्रकः । नारायणास्त्रं चिक्षेप सुभद्रो रणमूर्धनि
प्रणम्य शेते निर्भीतो मदनस्य सुतो बली । ऊर्ध्वमस्त्रं च बभ्राम शतसूर्यसमप्रभम्
प्रलीनमस्त्रमाकाशे विश्वसंहारकारणम् । अस्त्रे गते सोऽनिरुद्धो गृहीत्वा च महानसिम्
प्रबभञ्जभद्ररथं जघानाश्वांश्च सारथिम् । जघान तं सुभद्रं च लीलया रणमूर्धनि
हते सुभद्रे बाणश्च महाबलपराक्रमः । वाणानां शतकं चापि चक्षेप रणमूर्धनि
कामात्मजोऽग्निबाणेन बाणोधं प्रददाह सः । बाणश्चिक्षेप ब्रह्मास्त्रं सृष्टिसंहारकारणम्
दृष्ट्वा कामात्मजः शीघ्रं सबीजं मन्त्रपूर्वकम् । ब्रह्मस्त्रेणैव सहसा संजहारावलीलया
बाणः पाशुपतं क्षेप्तुं समारेभे च कोपतः । निषिद्धश्च गणेशेन स्कन्देन शंभुना तथा
तद्दृष्ट्वा सोऽनिरुद्धस्तं धनुर्बाणौघ संयुतम् । मुमोच जृम्भणे युद्धे शीघ्रं तं च महारथम्
जडो बभूव बाणश्च निश्चेष्टो रणमूर्धनि । पुनश्चिक्षेप निद्रास्यं निद्रितं तं चकार सः
बाणं तं निद्रितं दृष्ट्वा गृहीत्वा खड्गमुत्तमम् । बाणं हन्तुं समुद्यन्तं वारयामास कार्तिकः
स्कन्दश्च शतबाणौश्च वारयामास लीलया । अनिरुद्धं महाभागं बलवान्तं धनुर्धरम्
अनिरुद्धश्च सहसा तथा शक्त्या दुरत्यया । बभञ्ज कार्तिकरथं रत्नेन्द्रसारनिर्मितम्
गदया कार्तिकः क्रुद्धोऽप्यनिरुद्धरयं मुदा । बभञ्ज लीलया तत्र क्षणेन रणमूर्धनि