सुभद्रां च ददौ कृष्णः फाल्गुनाय महात्मने । कन्यकां मातुलानां च दाक्षिणात्यः परिग्रहः
देशेष्वन्येषु दोषोऽयमित्याह कमलोद्भवः
अथ षोडशाधिकशततमोऽध्यायः बाण उवाच अनिरुद्ध बुधोऽसि त्वं त्वयोक्तं सत्यमेव च । शंभुना चैवमुक्तं च सर्वं बुद्धं स्वचेतसा
त्वयोक्तं शंकरवरात्पञ्चानां स्वामिनां प्रिया । द्रौपदी च महाभागा तन्मे व्याख्यातुमर्हसि
शम्बरेण हृता पूर्व तव माता कथं रतिः । देवैरपि कथं दत्ता देवास्तेन जिता कथम्
अनिरुद्ध उवाच एकदा रघुनाथश्च सीतया लक्ष्मणो च । स्नातः सरसि तत्रस्थो रम्ये पञ्चवटीतटे
उवाच सीता हेमन्ते जलं सुस्वादु निर्मलम् । तथाऽन्नं व्यञ्जनं रम्यं सर्वं वस्तु सुशीतलम्
फलावबचयनं चक्रे सीतायै प्रददौ मुदा । ततो ददौ लक्ष्मणाय पश्चाद्भङ्क्ते स्वयं प्रभुः
लक्ष्मणस्तद्गृहीत्वा च नैव भुङ्क्ते फलं जलम् । मेघनादवधार्थं च सीतोद्धारणकारणात्
निद्रां न याति नो भुङ्क्ते वर्षाणां च चतुर्दश । य एवं पुरुषो योगी तद्वध्यो रावणत्मजः
एतस्मिन्नन्तरे रामं द्रष्टुं कमललोचनम् । वहनिस्तत्र समायातो द्विजरूपी कृपानिधिः भविष्यत्कथयामाम श्रुतिकौटपरं वचः
वह्निरुवाच शृणु राम महाभाग सीतासंगोपनं कुरु । सप्ताहाभ्यन्तरे चैव रावणो दुष्टराक्षसः
दुर्निवार्यः प्राक्तनेन जानकीं च हरिष्यति । विधात्रा लिखितं कर्म प्राक्तंनं केन वार्यते
वेदैश्चतुर्भिः कथितं न च दैवात्परं वरम्
राम उवाच सीतां गृहीत्वा त्वं गच्छ च्छायाऽत्रैव तु तिष्ठतु । कलत्रवर्जनं कर्म सर्वेषां च जुगुप्सितम्
सीतां गृहीत्वा प्रययौ रुदतीं च हुताशनः । सीतया सदृशी छाया तस्थौ श्रीरामसंनिधौ
सा च च्छाया हृता पूर्व रावणेनावलीलया । समुद्दधार तां रामो निहत्य तं सबान्धवम्
वह्नौ परीक्षाकाले च च्छाया वह्नौ विवेश सा । अग्निश्छायां च संरक्ष्य ददौ रामाय जानकीम्
रामस्तां च गृहीत्वा च प्रययौ स्वाश्रमं मुदा । छाया तस्थौ वह्निपार्श्वे हृदयेन विदूयता
सा च च्छाया तपश्चक्रे नारायणसरोवरे । तपश्चकार दिव्यं च शातवर्षं च शूलिनः
वरं वृणुष्व भद्रे त्वमुवाच शंकरश्च ताम् । उवाच शिवं व्यग्रा भर्तुर्दुःखेन दुःखिता
पतिं देहि पञ्चधा सा वरं वव्रे त्रिलोचनम् । सर्वसंपत्प्रदस्तुष्टस्तस्यै शर्वो वरं ददौ
महादेव उवाच साध्वि त्वं पञ्चधा ब्रूहि पतिं देहीति व्याकुला । पञ्चेन्द्राश्च हरेरंशा भविष्यन्ति प्रियास्तव
ते च सर्वे च पञ्चेन्द्राश्चाधुना पञ्च पाण्डवाः । सा च च्छाया द्रौपदी च यज्ञकुण्डसमुद्भवा
कृतयुगे वेदवती त्रेतायां जनकात्मजा । द्वापरे द्रौपदी छाया तेन कृष्णा त्रिहायणी
वैष्णपी कृष्णभक्ता च तेन कृष्णा प्रकीर्तिता । स्वर्गलक्ष्मीर्महेन्द्राणां सा च पश्चाद्भविष्यति
राजा ददौ फाल्गुनाय कन्यायाश्च स्वयंवरे । पप्रच्छ मातरं वीरो वस्तु प्राप्तं मयाऽधुना
तमुवाच स्वयं माता गृहाण भ्रातृभिः सह । शंभोर्वरेण पूर्व च परत्र मातुराज्ञया
द्रौपद्याः स्वामिनस्तेन हेतुना पञ्च पाण्डवाः । चतुर्दशानामिन्द्राणां पञ्चेन्द्राः पञ्च पाण्डवाः
शंकरेणाभिसंशप्ता सा मात्रा भर्त्सितेन च । भर्ताते भस्मसाद्भूतो हरकोपानलेन च