द्रोणः प्रजापतिः श्रेष्ठा धरा तस्य प्रिया सती । पुत्रं च तपसा लेभे परमात्मानमीश्वरम्
द्रोणो नन्दो वैश्यराजो यशोदा सा धरा सती । वृषभानसुता राधा सुदाम्नः शापकारणात्
त्रिंशत्कोटिं च गोपीनां गृहीत्वा भर्तुराज्ञया । पुण्यं च भारतं क्षेत्रं गोलोकादाजगामसा
ताभिः सार्ध स रेमे च स्वपत्नीभिर्मुदाऽन्वितः । पाणिं जग्राह राधायाः स्वयं ब्रह्मा पुरोहितः
गोपकोटिश्च गोलोकादाजगाम् मृदाऽन्विता । तेजसा हरितुल्यास्ते पार्षदप्रवरा हरेः
गोरक्षणं हरेरेव गोपवेषस्य चाऽऽत्मनः । गोपानां शिशुरक्षार्थं मायेशस्यापि मायया
पूतना बलिकन्या च भगिनी च तवासुर । दृष्ट्वा च वामनं विन्ध्या चकार पुत्रमानसम्
एवंभूतो यदि मम पुत्रो भवति सांप्रतम् । स्तनं ददामि तनयं कृत्वा वक्षसि सुन्दरम्
तस्याःपूर्णं मानसं च चकार भगवान्प्रभुः । स्तनं दत्त्वा च गोलोकं ययौ सा रत्नयानतः
कुब्जा सा भगिनी पूर्वं रावणस्य दुरात्मनः । श्रीरामं चकमे कामान्नाम्ना शूर्पणखा सती
नासां चिच्छेद तस्याश्च लक्ष्मणो धार्मिकेश्वरः । तपसा च वरं लेभे ब्रह्मणः प्रियमीश्वरम्
तेन पुण्येन तंलब्ध्वा गोलोकं सा जगाम ह । गोपी बभूव गोलोके कृष्णस्याऽऽलिङ्गनेन च
नरको हरिवध्यश्च स्वपूर्वप्राक्तनेन च । पाणिं जग्राह कन्यानां साक्षिणौ शशिभास्करौ
भीष्मकन्या महालक्ष्मीः शीकृष्णस्य प्रिया सती । वैकुण्ठादागता साध्वी ब्रह्मणोऽनृमतेन च
सत्राजितस्य कन्या सा सत्यभामा वसुंधर । ददौ कृष्णाय राजा स तं मणिं यौतुकेन च
भुवो भारावतरणहेतुना गमनं हरेः । संजहार भुवो भारं कुरुपाण्डवयुद्धतः
शिशुपालो दन्तवक्त्रो जयो विजय एव च । द्वारिणौ द्वारषट्के च वैकुण्ठे श्रीहरेरपि
कुमारशापात्पतितौ प्राप्य जन्मत्रयं ध्रुवम् । हिरण्यकशिपुश्चैव तवैव पूर्वपूरुषः
तस्य भ्राता हिरण्याक्षस्तेनैव वरुणो जितः । हरिर्नृसिंहरूपेण तं जघानावलीलया
सूकरेण हतोऽन्यश्च पूर्वजन्मकथां शृणु । द्वितीये जन्मनि पुरा रावणः कुम्भकर्णकः
श्रीरामेण हतौ तौ द्वौ शेषजन्म कलौ तयोः । श्रीकृष्णेन हतौ तौ द्वौ धर्मपुत्रावुभौ तथा
जरासंधश्च शाल्वश्च दुरात्मा कंस एव च । प्राक्तनात्तस्य वध्यास्ते भुवो भारजिहीर्षया
मांधातुः सुतमध्ये च यवनश्चापि प्राक्तनात् । लक्ष्मीश्वरस्य कृष्णस्य धनेन किं प्रयोजनमा
प्रतिज्ञया च सत्यायाः पुण्यकव्रतकारणात् । पारिजातं समनीय चकार स्वात्मनो व्रतम्
स्वयं जाम्बवती देवी दुर्गांशा भल्लुकात्मजा । पाणिं जग्राह तस्याश्च तपसा भारते हरिः
कुन्त्याश्च क्षेत्रजाः पुत्राः केवलं भर्तुराज्ञया । कलौ निषिद्धं त्रियुगे प्रसिद्धं पलपैतृकम्
युधिष्ठिरो धर्मपुत्रो भीमश्च पवनात्मजः । महेन्द्रपुत्रो धर्मिष्ठः फाल्गुनो विजयी भुवि
यस्मै पाशुपतं शंभुः प्रददौ च स्वयं पुरा । अश्वमेधं गवालम्भं संन्यासं पलपैतृकम्
देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् । द्रौपद्याः पञ्च भर्तारः शंकरस्य वरेण च
बलदेवः पुष्पमधु पूतं पिबति नित्यशः । चकार यमुनाह्वानं स्नानार्थं धार्मिकः शुचिः