सत्राजितः सूर्यभृत्यो देवात्प्राप मणीश्वरम् । घातयित्वा ह्युपायेन जग्राह मणिकन्यकाम्
कुरुपाण्डवयुद्धं च कारयित्वा च दारुणम् । युधिष्ठिरस्य यज्ञे च शिशुपालं जघान सः
दन्तवक्त्रं च शाल्बं च जरासंधं च दारुणः । संजहार भुवो भूपसमूहमतिदारुणम्
उपायान्नरकं हत्वा सर्वस्वं तज्जहार सः । दुर्बलो राजभीतश्चसमुद्रं शरणं गतः
जित्वा च भ्रातरं शक्रं भार्याया वचनेन च । जग्राह पारिजातं च पुष्पं च स्वर्गदुर्लभम्
कंसं निहत्याधर्मिष्ठो भ्रातरं मातुरेव च । जग्राह तस्य सर्वस्वं परं किं कथयामि ते
जत्वा च भल्लुकं युद्धे जग्राह तस्य कन्यकाम् । तत्पितुर्भगिनी कुन्ती चतुर्णां कामिनी भुवि
द्रौपदी भ्रातृपत्नी च प़ञ्चानां कामिनी तथा । गोष्ठीनो योनिलुब्धश्च शश्वत्परमलम्पटः
तज्ज्येष्ठो बरदेवश्च शश्वत्पिबति वारुणीम् । यमुनां भ्रातृपत्नीं च करोत्याह्वानमीप्सितम्
जहार भगिनीं तस्य कौःतेयः शक्रनन्दनः । सुभद्रां मातुलसुतां संनिबोध कुलक्रमम्
बाणस्य वचनं श्रुत्वा चुकोप कामनन्दनः । उवाच परमार्थं च योग्यं प्रत्युत्तरं मुने
अनिरुद्ध उवाच पिता मे कामदेवश्च ब्रह्मपुत्रः पुरा शुचिः । यस्यास्त्रेण वशीभूतं त्रैलोक्यं सततं शृणु
शिवकोपानलेनैव भस्मीभूतः स्वकर्मतः । कृष्णस्य पुत्रोऽप्यधुना सर्वेषां परमात्मनः
पतिव्रता रतिर्माता पतिशोकेन सांप्रतम् । शम्बरस्य गृहे तस्थौ हृता तेन बलेन च
छायां मायावतीं दत्त्वा मायया शयनेन च । रतिं स्वधर्म संरक्ष्य धर्मसाक्षी च तद्गृहे
निहत्य शम्बरं शत्रुं गृहीत्वा स्वप्रियां सतीम् । आजगाम द्वारकां च चन्द्रसुर्यौ च साक्षिणौ
पितामहं वासुदेवं त्वं किं जानामि मूढवत् । यं च सन्तोन जानन्ति वेदाश्चत्वार एव च
वासुः सर्वनिवासश्च विश्वानि यस्य लोमसु । तस्य देवः परं ब्रह्म वासुदेव इति स्मृतः
शंकरं पृच्छ साक्षाच्च यस्य भृत्योऽधुना भवान् । कृष्णभृत्यस्य च बलेः पुत्रोऽसि किंकरात्मजः
गोकुले वैश्यपुत्रत्वं ब्रूहि त्वं ज्ञानदुर्बल । भोजनं वेदविहितं शश्वत्क्षत्त्रियवैश्ययोः
द्रोणः प्रजापतिः श्रेष्ठा धरा तस्य प्रिया सती । पुत्रं च तपसा लेभे परमात्मानमीश्वरम्
द्रोणो नन्दो वैश्यराजो यशोदा सा धरा सती । वृषभानसुता राधा सुदाम्नः शापकारणात्
त्रिंशत्कोटिं च गोपीनां गृहीत्वा भर्तुराज्ञया । पुण्यं च भारतं क्षेत्रं गोलोकादाजगामसा
ताभिः सार्ध स रेमे च स्वपत्नीभिर्मुदाऽन्वितः । पाणिं जग्राह राधायाः स्वयं ब्रह्मा पुरोहितः
गोपकोटिश्च गोलोकादाजगाम् मृदाऽन्विता । तेजसा हरितुल्यास्ते पार्षदप्रवरा हरेः
गोरक्षणं हरेरेव गोपवेषस्य चाऽऽत्मनः । गोपानां शिशुरक्षार्थं मायेशस्यापि मायया
पूतना बलिकन्या च भगिनी च तवासुर । दृष्ट्वा च वामनं विन्ध्या चकार पुत्रमानसम्
एवंभूतो यदि मम पुत्रो भवति सांप्रतम् । स्तनं ददामि तनयं कृत्वा वक्षसि सुन्दरम्
तस्याःपूर्णं मानसं च चकार भगवान्प्रभुः । स्तनं दत्त्वा च गोलोकं ययौ सा रत्नयानतः
कुब्जा सा भगिनी पूर्वं रावणस्य दुरात्मनः । श्रीरामं चकमे कामान्नाम्ना शूर्पणखा सती