धर्मार्थकाममोक्षांश्च दातुं शक्ता सुपूजिता
प्रधानांशस्वरूपा च प्रकृतिश्च वसुन्धरा
रत्नाकारा रत्नगर्भा सर्वरत्नाकराश्रया
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर 2.1.
स्वाहादेवी वह्निपत्नी त्रिषु लोकेषु पूजिता
दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता
स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः
स्वस्तिदेवी वायुपत्नी प्रति विश्वेषु पूजिता
पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले
अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता सदा
ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः
धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता
यमपत्नी क्षमा साध्वी सुशीला सर्वपूजिता
क्रीडाधिष्ठातृदेवी सा कामपत्नी रतिः सती 2.1.
सत्यपत्नी सती मुक्तिः पूजिता जगतां प्रिया
मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया
पुण्यपत्नी प्रतिष्ठा सा पुण्यरूपा च पूजिता
सुकर्मपत्नी कीर्तिश्च धन्या मान्या च पूजिता
क्रिया उद्योगपत्नी च पूजिता सर्वसङ्गता
अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी
कलौ महाप्रगल्भा च सर्वत्र व्याप्तिकारणात्
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधा स्मृतिस्तथा 2.1.
मूर्त्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती
कालाग्निरुद्रपत्नी च निद्रा या सिद्धयोगिनाम्
कालस्य तिस्रो भार्य्याश्च सन्ध्या रात्रिर्दिनानि च
क्षुत्पिपासे लोभभार्य्ये धन्ये मान्ये च पूजिते