अनिरुद्धाय महते स्वेच्छया देहि कन्यकाम् । पूतोऽसि भारते वर्षे सप्तभिः पितृभिः सह
यौतुकं देहि सर्वस्वं यशसे महसे भुवि । अन्यथा रणमध्ये च त्वां हनिष्यति माधवः
सुदशंनेन चकेण को वा त्वां रक्षितुं क्षमः । कोटरीवचनं श्रुत्वा चुकोप दैत्यपुंगवः
प्रययौ रथमारुह्य यत्र पौत्रो हरेर्मुने । स्कन्दः सेनापतिर्भूत्वा प्रययौ शंकराज्ञया
बाणः स्वस्त्ययनं चक्रे गणेशश्च शिवः स्वयम् । बाणं शुभाशिषं चक्रे पार्वती कोटरी तथा
अष्टौ च भैरवाश्चैव रुद्राश्चैकादशैव ते । सर्वे युद्धाय हन्तारो बभूवुः शस्त्रपाणयः
एतस्मिन्नन्तरे दूतोऽप्यनिरुद्धमुवाच ह । पार्वत्या प्रेरितश्चैव बाणपत्न्या च सत्वरम्
दूत उवाच अनिरुद्धोत्तिष्ठ भद्रं पार्वतीवचनं शृणु । भव सांनाहिको वत्स कुरु युद्धं बहिर्भव
भीतोषा रुदती त्रस्ता सस्मार पार्वतीं सतीम् । रक्ष रक्ष महामाये मत्प्रणेश्वरमीप्सितम्
अभेयेऽप्यभयं देहि संग्रामे घोरदारुणे । त्वमेव जगतां माता स्नेहस्ते सर्वतः समः
अथानिरुद्धः संनाही शस्त्रपाणिर्बभूव ह । ऊषादत्तं रथं प्राप्य चकाराऽऽरोहणं मुदा
बहिः संभूय शिबिराद्ददर्श बाणमीश्वरः । सांनाहिकं शस्त्रपाणिं रक्तास्यलोचनं परम्
दृष्ट्वाऽनिरुद्धं बाणश्च तमुवाच रुषाऽन्वितः । घोरसंग्राममध्ये च विषोक्तिं प्रज्वलन्निव
बाण उवाच अये वीर महादुष्ट नीतिशास्त्रविवर्जित । चन्द्र वंशकुलाङ्गार पुण्यक्षेत्रेऽयशस्कर
पिता ते शम्बरं हत्वा जग्राह तस्य कामिनीम् । ततो जातो भवनेव निरोधं स्वकुलक्षमम्
पितामहो वासुदेवो मथुरायां च क्षत्रियः । गोकुले वैश्यपुत्रश्च नाम्ना च नन्दनन्दनः
वृन्दावने च गोपस्य नन्दस्य पशुरक्षकः । साक्षाज्जारश्च गोपीनां दुष्टः परमलम्पटः
जघान पूतनां सद्यो नारीघाती ह्यधार्मिकः । आगत्य मथुरां कुब्जां जघान मैथुनेन च
दुर्बलं नरकं हत्वा स्त्रीसमूहं मनोहरम् । जग्राह योनिलुब्धश्च स्वपुत्रमतिनिष्ठुरः
भीष्मकं मानवं जित्वा तत्पुत्रं चापि दुर्बलम् । जग्राह कन्यकां तस्य देवयोग्यां च रुक्मिणीम्
सत्राजितः सूर्यभृत्यो देवात्प्राप मणीश्वरम् । घातयित्वा ह्युपायेन जग्राह मणिकन्यकाम्
कुरुपाण्डवयुद्धं च कारयित्वा च दारुणम् । युधिष्ठिरस्य यज्ञे च शिशुपालं जघान सः
दन्तवक्त्रं च शाल्बं च जरासंधं च दारुणः । संजहार भुवो भूपसमूहमतिदारुणम्
उपायान्नरकं हत्वा सर्वस्वं तज्जहार सः । दुर्बलो राजभीतश्चसमुद्रं शरणं गतः
जित्वा च भ्रातरं शक्रं भार्याया वचनेन च । जग्राह पारिजातं च पुष्पं च स्वर्गदुर्लभम्
कंसं निहत्याधर्मिष्ठो भ्रातरं मातुरेव च । जग्राह तस्य सर्वस्वं परं किं कथयामि ते
जत्वा च भल्लुकं युद्धे जग्राह तस्य कन्यकाम् । तत्पितुर्भगिनी कुन्ती चतुर्णां कामिनी भुवि
द्रौपदी भ्रातृपत्नी च प़ञ्चानां कामिनी तथा । गोष्ठीनो योनिलुब्धश्च शश्वत्परमलम्पटः
तज्ज्येष्ठो बरदेवश्च शश्वत्पिबति वारुणीम् । यमुनां भ्रातृपत्नीं च करोत्याह्वानमीप्सितम्
जहार भगिनीं तस्य कौःतेयः शक्रनन्दनः । सुभद्रां मातुलसुतां संनिबोध कुलक्रमम्