बाण उवाच शृणु मातः प्रवक्ष्यामि शृणु तात महेश्वर । शृणु भ्रातर्गणपते शृणु भ्रातश्च कार्तिक
शुभशुभं प्राक्तनेन प्राणिनां कर्मिणां तथा । कृतकर्मातिरिक्तं च कार्य केषां च वर्तते
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति
यस्माच्च यस्य निर्वाणं विधात्रा लिखितं पुरा । तदेव नित्यं सत्यं च निषेकः केन वार्यते
संग्रामे कातरो यो हि निष्फलं तस्य जीवनम् । जयी यशस्च लभते मृतः स्वर्गं च गच्छति
प्रविश्य कन्यां गृह्णाति नगरं शिवरक्षितम् । पार्वत्या च गणेशेन युद्धेन बलिना तथा
को वा गृह्णाति कन्यां च कस्य वा जीवितस्य च । सगर्भा तव कन्येति सभायां रक्षको वदेत्
इति मे वज्रतुल्यं च श्रुतिकौटं परं वचः । अतोऽनिरुद्वं हत्वा च घातयिष्यामि कन्यकाम् अन्यथा ज्वलदग्नौ च त्यक्ष्यामि च कलेवरम्
कोटर्युवाच शृणु वत्स प्रवक्ष्यामि माताऽहं तेऽपि धर्मतः । तुरन्तेनापि पृत्रेण पित्रोर्दुःर्ख पदे पदे
कन्या परगृहीता साऽप्यन्यस्मै दातुमक्षमा । श्रीकृष्णस्यापि पौत्राय प्रद्युम्नस्य सुताय च
अनिरुद्धाय महते स्वेच्छया देहि कन्यकाम् । पूतोऽसि भारते वर्षे सप्तभिः पितृभिः सह
यौतुकं देहि सर्वस्वं यशसे महसे भुवि । अन्यथा रणमध्ये च त्वां हनिष्यति माधवः
सुदशंनेन चकेण को वा त्वां रक्षितुं क्षमः । कोटरीवचनं श्रुत्वा चुकोप दैत्यपुंगवः
प्रययौ रथमारुह्य यत्र पौत्रो हरेर्मुने । स्कन्दः सेनापतिर्भूत्वा प्रययौ शंकराज्ञया
बाणः स्वस्त्ययनं चक्रे गणेशश्च शिवः स्वयम् । बाणं शुभाशिषं चक्रे पार्वती कोटरी तथा
अष्टौ च भैरवाश्चैव रुद्राश्चैकादशैव ते । सर्वे युद्धाय हन्तारो बभूवुः शस्त्रपाणयः
एतस्मिन्नन्तरे दूतोऽप्यनिरुद्धमुवाच ह । पार्वत्या प्रेरितश्चैव बाणपत्न्या च सत्वरम्
दूत उवाच अनिरुद्धोत्तिष्ठ भद्रं पार्वतीवचनं शृणु । भव सांनाहिको वत्स कुरु युद्धं बहिर्भव
भीतोषा रुदती त्रस्ता सस्मार पार्वतीं सतीम् । रक्ष रक्ष महामाये मत्प्रणेश्वरमीप्सितम्
अभेयेऽप्यभयं देहि संग्रामे घोरदारुणे । त्वमेव जगतां माता स्नेहस्ते सर्वतः समः
अथानिरुद्धः संनाही शस्त्रपाणिर्बभूव ह । ऊषादत्तं रथं प्राप्य चकाराऽऽरोहणं मुदा
बहिः संभूय शिबिराद्ददर्श बाणमीश्वरः । सांनाहिकं शस्त्रपाणिं रक्तास्यलोचनं परम्
दृष्ट्वाऽनिरुद्धं बाणश्च तमुवाच रुषाऽन्वितः । घोरसंग्राममध्ये च विषोक्तिं प्रज्वलन्निव
बाण उवाच अये वीर महादुष्ट नीतिशास्त्रविवर्जित । चन्द्र वंशकुलाङ्गार पुण्यक्षेत्रेऽयशस्कर
पिता ते शम्बरं हत्वा जग्राह तस्य कामिनीम् । ततो जातो भवनेव निरोधं स्वकुलक्षमम्
पितामहो वासुदेवो मथुरायां च क्षत्रियः । गोकुले वैश्यपुत्रश्च नाम्ना च नन्दनन्दनः
वृन्दावने च गोपस्य नन्दस्य पशुरक्षकः । साक्षाज्जारश्च गोपीनां दुष्टः परमलम्पटः
जघान पूतनां सद्यो नारीघाती ह्यधार्मिकः । आगत्य मथुरां कुब्जां जघान मैथुनेन च
दुर्बलं नरकं हत्वा स्त्रीसमूहं मनोहरम् । जग्राह योनिलुब्धश्च स्वपुत्रमतिनिष्ठुरः
भीष्मकं मानवं जित्वा तत्पुत्रं चापि दुर्बलम् । जग्राह कन्यकां तस्य देवयोग्यां च रुक्मिणीम्