युवानं व्याधिहीनं च कन्दर्पादपि सुन्दरम् । संभोगं कारयामास बुबुधे न दिवानिशम्
सांप्रतं तव कन्या साऽप्यूषागर्भवती सती । कुलजा कुलयोश्चैव तप्ताङ्गारस्वरूपिणी
दौहित्रो वाऽपि दौहित्री बभुव सांप्रतं तव। कन्यां पश्य महाप्रौढां नगरीं नागरान्विताम्
नखविक्षतसर्वाङ्गीं वराधीनां च चञ्चलाम् । पुंसश्च सङ्गिरीं शश्वद्रहस्ये रतिसङ्गिनीम्
सस्मितां सकटाक्षां च च़ञ्चलेक्षणवीक्षताम् । एवं श्रुत्वा लज्जितश्च बाणस्तत्र चुकोप ह
युद्धाय च मतिं चक्रे वारितः शभुना भृशम् । वारितश्च गणेशेन स्कन्देन शिवया तथा
भैरव्या भद्रकाल्या च योगिनीभिश्च संततम् । अष्टभिर्भैरवैश्चैव रुद्रैरेकादशात्मकैः
भूतैः प्रेतैश्च कूष्माण्डैर्वेतालैर्ब्रह्मराक्षसैः । योसीन्द्रैरपि सिद्धेन्द्रै रुद्रैश्चण्डादिभिस्तथा
कोटर्या प्रामदेव्या च यथा मात्रा हिताय च । उवाच शंकरो बाणं मूढं पण्डितमानिनम् हितं सत्यं नीतिशास्त्रं परिणामसुखावहम्
महादेव उवाच शृणु बाण प्रवक्ष्यामि कथामेतां पुरातनीम् । भुवो भारावतरणे भारते स्वयमीश्वरः
निहत्य सर्वान्राजेन्द्रान्द्वारकायां विराजते । यस्य लोमसु विश्वानि तस्य वासः सदीश्वरः
वासुदेव इति ख्यातः कथ्यते तेन कोविदैः । धातुर्विधाता भगवांश्चक्रपाणिः स्वयं भुवि
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः । निर्गुणश्च निरीहश्च भक्तानुग्रहविग्रहः
परं ब्रह्म परं धाम परमात्मा च देहिनः । यस्मिन्गते शवो जीवो संग्रामस्तेन संभवेत्
शस्त्रविद्धो महाकाशो यथा मूढ दिशस्तथा । तथाऽऽत्मा च निराकारो देही च ध्यानहेतुना
तस्य पुत्रोऽनिरुद्धश्च महाबलपराक्रमः । त्रैलोक्यमपि संहर्तुं क्षणेन च क्षमः स्वयम्
सर्वे वेवाश्च दैत्याश्च बलवन्तो महारथाः । ते सर्वे चानिरुद्धस्य कलां नार्हन्ति षोडशीम्
ययोरेव समं वित्तं ययोरेव समं बलम् । तयोर्विवाहो मैत्री च न तु पुष्टविपुष्टयोः
बलिः पिता ते दैत्यानां सारभूतो महारथः । क्षणेन येन नीतश्च सुतलं स हरेः कला
सर्वे चांशकलाः पुंसः परिपूर्णतमस्य च । वृन्दावनेश्वरस्यापि कृष्णस्य परमात्मनः
पार्वत्युवाच ध्यायते ध्याननिष्ठश्च हृत्पद्मे च दिवानिश्म् । ब्रह्मा महेशः मेषश्च भगवन्तं सनातनम्
दिनेशश्च गणेशश्च योगीन्द्राणां गुरोर्गुरुः । ध्यायते परमात्मानं भगवन्तं सनातनम्
सनत्कुमारः कपिलो नरो नारायणस्तथा । ध्यायते हृदयाम्भोजे भगवन्तं सo
मनवश्च मुनीन्द्राश्च सिद्धेन्द्रा योगिनां वराः । ध्यानासाध्यं च ध्यायन्ते भगवन्तं सo
सर्वादिं सर्वबीजं च सर्वेशं च परात्परम् । ध्यायन्ते ज्ञानिनः सर्वे भगवन्तं सo
गणेश उवाच अभाग्यं च बलेश्चापि वैष्णवस्य महात्मनः । मूढोऽयमीदृशः पुत्रः प्रह्लादस्य च धीमतः
स्कन्द उवाच अये भ्रातर्न श्रुता च हिरण्यकशिपोः कथा । हिरण्याक्षस्य च मधोः कैटभस्य महात्मनः
पूर्वजास्तेऽपि ते दैत्या महाबलपराक्रमाः । क्रमेण विष्णुना नीता लीलया यमसादनम्
भगवान्यस्य संहर्ता स्वयं नारायणः प्रभुः । तस्य को रक्षिता भ्रातर्निवर्तस्व शुभायच
तेषां च वचनं श्रुत्वा तानुवाचासुरेश्वरः । कोपरक्तास्यनयनो धनुष्पाणिर्यथाऽन्तकः