सर्वं ज्ञात्वा च सर्वज्ञो भगवान्हरिरीश्वरः । स्वप्ने सुवेषं पुरुषं दर्शयामास कन्याकाम्
सुवेषं पुरुषं दृष्ट्वा युवानं युवाती सती । परमेच्छा भवेत्तस्या धर्मभीत्या निवर्तते
सुवेषं पुरुषं दृष्ट्वा पुंश्चली पापवंशजा । त्येजेन्निद्रां च स्वाहारं पतिं पुत्रं धनं गृहम्
चेतनं गृहकार्य च कुललज्जां कुलद्वयम् । युवानं रतिशूरं चाप्यतिनीच न हि त्यजेत्
त्यजेज्जातिं च धर्मं च प्राणांश्च परिणामतः । तस्मात्प्राज्ञः प्रयत्नेन प्राणेभ्यो युवतीं सदा
परिरक्षेच्च सततं मायायुक्तां न विश्वसेत् । हृदयं क्षुरधाराभं नारीणां मधुरं वचः
तासां मनो न जानन्ति सन्तो वेदाश्च वैदिका । प्रयातु द्वारकां सद्याश्चित्रलेखा सुयोगिनीं
अनिरुद्धं समाहर्तुं प्रमात्तमवलीलया । इति श्रुत्वा महादेवो गणेशं तमुवाच ह
न श्रुणोति यथा बाणः शुभकार्यं तथा कुरु । चित्रलेखा ययौ तुर्णं द्वारकाभवनं हरेः
सर्वेषामपि दुर्लङ्ध्यं लीलया प्रविवेश सा । निद्रितं चानिरुद्धं च समाहृत्य च योगतः
रथमारोहयामास निद्वितं बालकं मुदा । सा मनोयायिनी भद्रा गृहीत्वा बालकं मुने
मुहूर्ताच्छोणितपुरं कृत्वा शङ्खध्वनिं ययौ । अथाऽऽश्रमाभ्यन्तरे च रुरुदुः सर्वयोषितः
अहो बाणहरो वत्सः क्वगतः प्राणवल्लभः । कृष्णस्ताश्च समाश्वास्य सर्वज्ञः सर्वतत्त्ववित्
साम्बकामबलैः सार्ध कृष्णाः सात्यकिना तथा । गृहीत्वा गानुडं वीरं रथमारुह्य सत्वरः
सुदर्शनं पाञ्चजन्यं पद्मं कौमोदकीं गदाम् । पश्चाद्यास्यतिदेवेशो नगरं शोणितं तथा
सगणैःशंकेरणैव पार्वत्या परिरक्षितम् । अथ सा योगिनी धन्या पुण्या मान्या च योषिताम्
शिष्या दुर्वाससः शान्ता सिद्धयोगेन सिद्धिदा । बारकं बोधयामास रुदन्तं मातरं स्मरन्
स्नापयित्वा ददौ तस्मै माल्यचन्दनभूषणम् । कृत्वा सुवेषं बालस्य कन्यान्तः पुरमीप्सितम्
चक्रे प्रवेशं योगेन रक्षकैश्चापि रक्षितम् । तामूषां निद्रितां दृष्ट्वा निराहारां कृशोदरीम्
शीघ्रं च बोधयामास सखीभिः परिरक्षिताम् । ऊषां कृत्वा च सुस्नातां वस्त्रभूषणभूषिताम्
वस्त्रैर्माल्यैश्चन्दनैश्च सिन्दूरपत्रकैः शुभैः । द्वयोः संभाषणं तत्र माहेन्द्रे च शुभक्षणे
कारयामास गुप्त्या च सखीनां संमतेन च । पतिव्रता पतिं दृष्ट्वा सा रेमे विगतज्वरा
गान्धर्वेण विवाहेन तामुवाह स्मरात्मजः । रतिर्बभूव सुचिरमुभयोः सुखकारणम्
दिवानिशं न बुबुधे स्मरपुत्रः स्मरातुरः । ऊषा कामातुरा प्रौढा नवोढा नवसंगमात्
मूर्च्छां संप्राप पुंसश्च स्पर्शमात्रेण कामुकी । एवं नित्यं च रहसि संगमः सुमनोहरः बभूव सुचिरं विप्र राजा शुश्राव रक्षकात्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदानाo ऊषानिरुद्धयोः संगमे चतुर्दशाधिकशततमोऽध्यायः
अथ पञ्चदशाधिकशततमोऽध्यायः नारायण उवाच अथ भीता रक्षकास्ते समूतुर्बाणमीश्वरम् । स्कन्दं गणेशं दुर्गां च दण्डवत्प्रणिपत्य च
रक्षका ऊचुः अहो दुष्टश्च कालोऽयमतीव दुरतिक्रमः । स्वतन्त्रा बालिका प्रौढा पतिमिच्छति सांप्रतम्
असङ्गसंगमं नाथ साधूनां दुःखकारणम् । संसर्गजा गुणा दोषा भवन्ति सततं नृणाम्
चित्रलेखा स्वयं दूती समानीय परं वरम् । रणशूरं महावीरं नृपेन्द्रं च महारथम्