रत्नकेयुरवलयरत्नमञ्जीररञ्जितम् । रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम्
चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससा । सुचारुमालतीमाल्यवक्षः स्थलसमुज्ज्वलम्
शयानं रत्नपर्यङ्के पुष्पचन्दनचर्चिते । तं दृष्ट्वा सहसा साध्वी तन्मूलं प्रययौ मुदा
उवाच मधुरं साध्वी हृदयेन विदूयता । कामात्मजप्रिया कान्ता कामबाणप्रपीडिता
ऊषोवाच कस्त्वं कामुक भद्रं ते मां भजस्व स्मरातुराम् । अतिप्रौढां नवोढां च नवसंगमलालसाम्
तवानुरक्तां भक्तां च गान्धर्वेण समुद्वह । विवाहाष्टप्रकारेषु गान्धर्वः सुलभो नृणाम्
अनुरक्तां प्रियां प्राप्य त्यजेद्यः कपटी पुमान् । तस्माद्याति महालक्ष्मीः शापं दत्त्वा सुदारुणम्
पुमानुवाच अहं कृष्णस्य पौत्रश्च कामदेवात्मजः स्वयम् । कथं गृह्णामि त्वां कान्ते तयोरनुमतिं विना
इत्येवमुक्त्वा स पुमानन्तर्धानं चकार सः । कामेन व्याकुला कान्ता न दृष्ट्वा कान्तमीप्सितम्
निद्रां त्यक्त्वा समुत्थाय तल्पादेव मनोहरात् । विषसाद सखीमध्ये प्रमत्ता रुदती भृशम्
पप्रच्छ तां वराऽऽलीनां किं किमित्येव निश्चितम् । उवाच बौधयामास चित्रलेखा सुयोगिनी
चेतनं कुरु कल्याणि कस्माते भीतिरुल्बणा ।स्वयं शंभुः शिवा साक्षाद्दुर्लङ्ध्ये नगरे सति
शिवस्मरणमात्रेण सर्वारिष्टं पलायते । शिवं भवति सर्वत्र शिव एव शिवालयः
ध्यानाद्दुर्गतिनाशिन्याः सर्वं दुर्गं विनश्यति । ददाति मङ्गलं तस्मै सर्वमङ्गलमह्गला
चित्रलेखावचः श्रुत्वा किंचिन्नोवाच सुन्दरी । त्यक्त्वाऽऽहारं च निद्रां च पुरुषं चिन्तयेत्सदा
चित्रलेखा सखी गत्वा बाणमाह च तत्प्रियाम् । दुर्गां च शंकरं स्कन्दं गणेशं योगिनां गुरुम्
चित्रलेखावचः श्रुत्वा रुरोदोच्चैर्भृशं सती । बाणश्य शंकराभ्याशे विषसाद प्रमूर्च्छितः जहास शंकरो दुर्गा कार्तिकेयो गणेश्वरः
गणेश्वर उवाच यो ददाति ध्रुवं दुःखमन्यस्मै दमभमोहितः । सक्ष्मधर्मविचारेण स विन्दति चतुर्गुणम्
शिवेशयोश्च क्रीडां च दृष्ट्वा या काममोहिता । वरं तस्यै ददौ दुर्गा वरमेव सुदुर्लभम्
स्वप्ने गत्वा स्वयं देवी मत्तं कृत्वा समरात्मजम् । अधुना वामपार्श्चे च शंभोस्तिष्ठति मूक्वत्
सर्वं ज्ञात्वा च सर्वज्ञो भगवान्हरिरीश्वरः । स्वप्ने सुवेषं पुरुषं दर्शयामास कन्याकाम्
सुवेषं पुरुषं दृष्ट्वा युवानं युवाती सती । परमेच्छा भवेत्तस्या धर्मभीत्या निवर्तते
सुवेषं पुरुषं दृष्ट्वा पुंश्चली पापवंशजा । त्येजेन्निद्रां च स्वाहारं पतिं पुत्रं धनं गृहम्
चेतनं गृहकार्य च कुललज्जां कुलद्वयम् । युवानं रतिशूरं चाप्यतिनीच न हि त्यजेत्
त्यजेज्जातिं च धर्मं च प्राणांश्च परिणामतः । तस्मात्प्राज्ञः प्रयत्नेन प्राणेभ्यो युवतीं सदा
परिरक्षेच्च सततं मायायुक्तां न विश्वसेत् । हृदयं क्षुरधाराभं नारीणां मधुरं वचः
तासां मनो न जानन्ति सन्तो वेदाश्च वैदिका । प्रयातु द्वारकां सद्याश्चित्रलेखा सुयोगिनीं
अनिरुद्धं समाहर्तुं प्रमात्तमवलीलया । इति श्रुत्वा महादेवो गणेशं तमुवाच ह
न श्रुणोति यथा बाणः शुभकार्यं तथा कुरु । चित्रलेखा ययौ तुर्णं द्वारकाभवनं हरेः
सर्वेषामपि दुर्लङ्ध्यं लीलया प्रविवेश सा । निद्रितं चानिरुद्धं च समाहृत्य च योगतः