रतिपुत्रं रतिरसं प्रमत्तं रसिकं प्रिये । युवानं व्याधिहीनं च कामुकं कामुकीच्छति
विदग्धामु विदग्धं च कान्तमायाति कामतः । विदग्धाया विदग्धेन संगमो गुणवान्भवेत्
प्रच्छाद्य लोजनास्यं च नवसंगमलज्जिता । विलोकयन्ती वक्राक्षिकोणेन तमुवाच सा
कामिन्युवाच कामुकः कामपुत्रोऽसि कामेन व्याकुलोऽधुना । भवांश्चेत्कामुकीयोग्यो न कामश्चिन्तितः कथम्
पौत्रस्त्रैलोक्यनाथस्य स्वतः संभावितस्य च । स्वयं योग्यो योग्यपुत्रो विवाहं न कथं (व्यधाः) चन
विवाहीता यज्ञपत्नी सा च पुण्यव्रता सती । निश्चला सततं साध्या वर्धिनी सङ्गिनी सदा
भयप्रीतिदानसाध्या गुप्तपत्नी त्वनिश्चला । नैमित्तिका न नीत्या सा सा च वेदविवर्जिता
परं नरकसोपाना परत्रेहायशस्करा । साधुस्तत्र न हि रतो वंशजो वैष्णवो यदि
यदि पूर्व भवेद्भ्रान्तो निवृत्तः साधुसङ्गतः । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला
प्रायश्चित्ती पुनर्लिप्तो निवृत्तः पातकी यदि । उवहास्यो भुवि भवेत्सर्वं कुञ्जरशौचवत्
सुशीला सुन्दरी शान्ता धर्मपत्नी प्रशंसिता । पतिव्रता सुसाध्या सा शश्वत्सुप्रियवादिनी
कोमलाङ्गी विदग्धा च श्यामा रतिसुखप्रदा । एवंभूतां परित्यज्य वैष्णवस्तपसे व्रजेत्
सा जेत्परिणता साध्वी शान्ता पुत्रवती यदा । अन्यथा च वृथा सर्वं तपसः स्खलनं भवेत्
असाधुश्च कुवंशश्चेत्परनारीं प्रयाति चेत् । स याति नरकं घोरं पितुशिः सप्तभिःसह
अहमूषा बाणकन्या बाणः शंकरकिंकरः । बाणस्त्रैलोक्यविजयी शंकरो जगतां पतिः
न स्वतन्त्रा पराधीना त्रिषु कालेषु कामिनी । पुंश्चली या स्वतन्त्रा साऽप्यसद्वंशप्रसूतिका
पिता ददाति कन्यां तां सुयोग्याय वराय च । कन्या वरं न याचेत धर्म एष सनातनः
त्वं च योग्योऽसि योग्याऽहं मामिच्छसि यदि प्रभो । बाणं प्रार्थय शंभुं वाऽऽप्यथवा पार्वतीं सतीम्
इत्युक्त्वा सुन्दरी साध्वी सान्तर्धाना बभूव ह । निद्रां तत्याज सहसा कामी कामात्मजो मुने
बुद्धवा स्वप्नं स विज्ञाय कामेन व्यथितान्तरः । बभूव व्याकुलोऽशान्तो न दृष्ट्वा प्राणवल्लभाम्
त्यक्त्वाऽऽहारमनिद्रश्च प्रमत्तश्च कृशोदरः । क्षणं तिष्ठति शेते च क्षणं रहसि रोदिति
पुत्रं दृष्ट्वा तु क्रन्दन्तं देवकी रुक्मिणी रतिः । अन्याश्च योषितः सर्वाः कथयामासुरीश्वरम्
तासां च वचनं श्रुत्वा प्रहस्य मवुसूदनः । उवाच सर्वतत्त्वज्ञः कृष्णश्च पूर्णमानसः
श्रीभगवानुवाच कामातुरा बाणकन्या रतिं दृष्ट्वा शिवेशयोः । वरं संप्राप दुर्गाया व्याकुला मदनास्त्रतः
स्वप्नं च दर्शयामास साऽनिरुद्धं च पार्वती । मम पौत्रं प्रमत्तं च चकार कौतुकेन च
तत्पुत्रीं च प्रमतां ता करोमि स्वप्नताऽधुना । स्वच्छन्दं तिष्ठ न चिरं नास्ति चिन्ता मनोव्यथा
इति कृष्णः समाश्वास्यसर्वातमासर्वसिद्धिवित् । स्वप्नं च दर्शयामास बाणपुत्रीं च कामुकीम्
सुप्ता सुतल्पे बाला सा पुष्पचन्दनचर्चिते । नवयौवनसंयुक्ता रत्नभूषणभूषिता
शयाना रत्नपर्यङ्के ददर्श स्वप्नमीप्सितम् । अतीव निर्जने देशे रत्ननिर्माणमन्दिरे
नवीननीरदश्याममतीव नवयौवनम् । कोटिकन्दर्पलीलाभं सस्मितं सुमनोहरम्