यज्ञं च कारयामास कोटिहोमान्वितं शुफम् । नानाप्रकारनैवेद्यैर्द्यूपदीपैर्मनोहरैः
ब्राह्मणान्भोजयामास पार्वतीप्रीतये तथा । रैवते पर्वते रम्ये चामूल्यरत्नमन्दिरे
गणेशं पूजयामास देवानामीश्वरं परम् । लड्डुकानां तिलानां च सुस्वादुसुमनोहरम्
परिपुष्टं पञ्चलक्षं नैवेद्यं च ददौ मुदा । लड्डुकं स्वस्तिकानां च सप्तलक्षं सुधोपमम्
गणेश्वराय प्रददौ शर्कराशतराशिकम् । पक्वरम्भाफलानां च दशलक्षमपूपकम्
मिष्टान्नं पायसं रम्यं स्वादु स्वस्तिकपिष्टकम् । घृतं च नवनीतं च दधि दुग्धं सुधोपमम्
धूपं दीपं पारिजातपुष्पमाल्यमभीप्सितम् । सुगन्धि चन्दनं गन्धं वह्निशुद्धाशुके ददौ
यज्ञं च कारयामास कोटिहोमान्वितं शुभम् । ब्राह्मणान्भोजयामास तुष्टाव स गणेश्वरम्
वाद्यं दशविधं चैव वादयामास तत्र वै । सूर्यं च पूजयामास साम्बः कुष्ठक्षयाय च
हविष्यं कारयामास तं च साम्बंसमातरम् । परिबूर्ण वत्सरं चाप्युपहारैरनुत्त्मैः वरं ददौ च साम्बाय स्तोत्रं च भास्करः स्वयम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तं नारदनाo गणेशपूजा नाम त्रयोदशाधिकशततमोऽध्यायः
अथ चतुर्दशाधिकशततमोऽध्यायः नारायण उवाच कृष्णपुत्रश्च प्रद्युम्नो महाबलपराक्रमः । तत्पुत्रोऽप्यनिरुद्धश्च विधातुरंश एव च
एकदाऽसावनिरुद्धो नवयौवनसंयुतः । सुप्तो रहसि पर्यङ्के पुष्पचन्दनचर्चिते
स्वप्ने ददर्श युवतीं पुष्णोद्याने सुपुष्पिते । सुगन्धिपुष्पतल्पे च स्निग्धचन्दनचर्चिते
शयानां सुस्मितां रम्यां नवयौवनसंयुताम् । अमूल्यरत्ननिर्माणभूषणेन विभूषिताम्
चारुकेयूरवलयशङ्खकङ्कणशोभिताम् । मणिकुण्डलयुग्मेन गण्डस्थलविराजिताम्
अतीव सूक्ष्मवसनां क्वणन्मञजीररञ्जिताम् । पक्वबिम्बाधरोष्ठीं च शरत्कमललोचनाम्
शरत्पद्मप्रभामुष्टकोटीन्दुनिन्दिताननाम् । मुक्तापङ्क्तिसमासाद्यदन्तपङ्क्तिमनोहराम्
त्रिवक्रकबरीभारां मालतीमाल्यभूषिताम् । कस्तूरीकुङ्कुमालक्तस्निग्धचन्दनकज्जलैः
पत्रावलीविरचितसुकपोलस्थलोज्ज्वलाम् । दाडिमीकुसुमाकारसिन्दूरबिन्दुभूषिताम्
श्रीरामकदलीस्तम्भनिन्दितोरुस्थलोज्ज्वलाम् । अत्युच्चैर्वर्तुलाकारस्तनयुग्मविभूषिताम्
नितम्बभारन म्रां च कामबाणप्रपीडिताम् । कामुकीं कमनीयां च पश्यन्तीं वक्रचक्षुषा
कुङ्कुमालक्तरक्ताक्तपादपद्मविराजिताम् । वायुप्रेरणवस्त्रेण व्यक्तगुव्तस्थलोज्ज्वलाम्
तां दृष्ट्वा कामपुत्रश्च कामोन्मथितमानसः । उवाच मधुरं रम्यं काममत्तां सुकोमलाम्
चारुचम्पकवर्णाभां कामेन पुलकान्विताम् । अतिप्रौढां नवोढां च शृङ्गानेच्छासुचञ्चलाम्
अनिरुद्ध उवाच किं देवी किं च गान्धर्वोका त्वं कामिनिकानने । कस्य सत्री कस्य कन्या वा कं वा वाञ्छसि सुन्दरि
त्रैलोक्यातुलसौन्दर्या मुनिमानसमोहिनी । न बिभेषि कथं ब्रूहि स्वयमेकाकिनी च माम्
अहं त्रैलोक्यनाथस्य पौत्रः कामात्मजोऽधुना । कान्तेऽहमनिरुद्धश्च नवीनयौवनाहतः
कमनीयश्च कामी च कामशास्त्रविशारदः । कामुकीकामनां पूर्णां कर्तुमेवेश्वरः स्वयम्
मां भजस्व सुशीरे त्वं सुवेषं च सुशीलकम् । रतिशूरं रतिरसप्राज्ञं रतिरसप्रियम्