तस्मै ददौ राजलक्ष्मीं निश्चलां साप्तपौरुषीम् । पृथुकानां कणं भुक्त्वा भक्तस्य भक्तवत्सलः
बभूव तस्य राज्यं च यथेन्द्रस्यामरावती । यथा धनेश्वरो देवो धनाढ्यः स बभुव ह
निश्चलां हरिभक्तिं च ददौ दास्यं सृदुर्लभम् । अविनाशिनि गोलोके यथेष्टं पदमुत्तमम्
जहार पारिजातं च शक्राहंकारमेव च । सत्यां च कारयामास पुण्यकं व्रतमीप्सितम् ।। १३३.
वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने । तत्र व्रते कुमाराय स्वात्मानं दक्षिणां ददौ ।। १३३.
ब्रह्माणान्भोजयामास तेभ्यो रत्नं ददौ मुदा । सत्यभामातिमानं च वर्धयामास सर्वतः ।। १३३.
रुक्मिण्या अतिसौभाग्यमन्यासां च नवं नवम् । वैष्णवानां सुराणां च विप्रणामपि पूजनम् ।। १३३.
वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने । परमाध्यात्मिकं ज्ञानमुद्धवाय ददौ प्रभुः ।। १३३.
अर्जुनं कथयामास गीतां च रणमूर्धनि । कृत्वा निष्कण्टकं चैव कृपया च कृपानिधिः ।। १३३.
युधिष्ठिराय पृथिवीराज्यलक्ष्मीं ददौ प्रभुः । दुर्गां च पूजयामास वैष्मवीं ग्रामदेवताम्
यज्ञं च कारयामास कोटिहोमान्वितं शुफम् । नानाप्रकारनैवेद्यैर्द्यूपदीपैर्मनोहरैः
ब्राह्मणान्भोजयामास पार्वतीप्रीतये तथा । रैवते पर्वते रम्ये चामूल्यरत्नमन्दिरे
गणेशं पूजयामास देवानामीश्वरं परम् । लड्डुकानां तिलानां च सुस्वादुसुमनोहरम्
परिपुष्टं पञ्चलक्षं नैवेद्यं च ददौ मुदा । लड्डुकं स्वस्तिकानां च सप्तलक्षं सुधोपमम्
गणेश्वराय प्रददौ शर्कराशतराशिकम् । पक्वरम्भाफलानां च दशलक्षमपूपकम्
मिष्टान्नं पायसं रम्यं स्वादु स्वस्तिकपिष्टकम् । घृतं च नवनीतं च दधि दुग्धं सुधोपमम्
धूपं दीपं पारिजातपुष्पमाल्यमभीप्सितम् । सुगन्धि चन्दनं गन्धं वह्निशुद्धाशुके ददौ
यज्ञं च कारयामास कोटिहोमान्वितं शुभम् । ब्राह्मणान्भोजयामास तुष्टाव स गणेश्वरम्
वाद्यं दशविधं चैव वादयामास तत्र वै । सूर्यं च पूजयामास साम्बः कुष्ठक्षयाय च
हविष्यं कारयामास तं च साम्बंसमातरम् । परिबूर्ण वत्सरं चाप्युपहारैरनुत्त्मैः वरं ददौ च साम्बाय स्तोत्रं च भास्करः स्वयम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तं नारदनाo गणेशपूजा नाम त्रयोदशाधिकशततमोऽध्यायः
अथ चतुर्दशाधिकशततमोऽध्यायः नारायण उवाच कृष्णपुत्रश्च प्रद्युम्नो महाबलपराक्रमः । तत्पुत्रोऽप्यनिरुद्धश्च विधातुरंश एव च
एकदाऽसावनिरुद्धो नवयौवनसंयुतः । सुप्तो रहसि पर्यङ्के पुष्पचन्दनचर्चिते
स्वप्ने ददर्श युवतीं पुष्णोद्याने सुपुष्पिते । सुगन्धिपुष्पतल्पे च स्निग्धचन्दनचर्चिते
शयानां सुस्मितां रम्यां नवयौवनसंयुताम् । अमूल्यरत्ननिर्माणभूषणेन विभूषिताम्
चारुकेयूरवलयशङ्खकङ्कणशोभिताम् । मणिकुण्डलयुग्मेन गण्डस्थलविराजिताम्
अतीव सूक्ष्मवसनां क्वणन्मञजीररञ्जिताम् । पक्वबिम्बाधरोष्ठीं च शरत्कमललोचनाम्
शरत्पद्मप्रभामुष्टकोटीन्दुनिन्दिताननाम् । मुक्तापङ्क्तिसमासाद्यदन्तपङ्क्तिमनोहराम्
त्रिवक्रकबरीभारां मालतीमाल्यभूषिताम् । कस्तूरीकुङ्कुमालक्तस्निग्धचन्दनकज्जलैः
पत्रावलीविरचितसुकपोलस्थलोज्ज्वलाम् । दाडिमीकुसुमाकारसिन्दूरबिन्दुभूषिताम्