क्व यासि तपसे वत्स सुधां त्यक्त्वा मनोहराम् । श्रीकृष्णपादपद्मं च स्वप्ने जपति यो मुने
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः । यद्बाल्ये यच्च कौमारे वार्धके यच्च यौवने
कामतोऽकामतो वाऽपि भस्मीभूतं च पातकम् । साक्षाद्यो भारते वर्षे श्रीकृष्णचरणाम्बुजम्
दृष्ट्वा सद्यो भवेत्पूज्यो जीवन्मुक्तो भवेद्ध्रुवम् । कोटिजन्मार्जितात्सद्यः कृतपापाद्विमुच्यते
सर्वाण्येव हि तीर्थानि यतःपूतानि नित्यशः । तद्व्रतं तत्तपः सत्यं तत्पुण्यं तच्च पूजनम्
सफलं कृष्णसंबन्धि स्वजन्मखण्डनं यतः । कृष्णभक्तिविहीनश्च ब्राह्मणो वेदपारगः
तत्सङ्गाच्च तदालापा द्भक्तभक्तिः प्रणश्यति । कृष्णस्योच्छिष्टभोजी यः कुष्णभक्तश्च ब्राह्मणः
आवह्निपवनात्पूतः पूतं कर्तुं जगत्क्षमः । श्रीकृष्णं च परित्यज्य क्वयासि तपसे द्विज
तपसां फलमाप्नोति श्रीकृष्णस्मरणेन च । यतो भक्तिर्न च भवेच्छ्रीकृष्णे परमात्मनि
स गुरुः परमो वैरी करोति जन्म निष्फलम् । पार्वतीवचनं श्रुत्वा शंकरः प्रेमविह्वलः
पुलकाञ्चितसर्वाङ्गस्तुष्टाव परमेश्वरीम् । दुर्वासाः प्रणतिं कृत्वा शिवदुर्गापदाम्बुजे
स्मारं स्मारं कृष्णपदं पुनष्च द्वारकां ययौ । तत्र गत्वा हरिं दृष्ट्वा तुष्टाव परमेश्वरम्
एकानंशालयं गत्वा स च रेमे तया सह । कृष्णो युधिष्ठिरध्यानात्प्रययौ हस्तिनापुरम्
कुन्तीं सभाष्य भूपं च भ्रातॄं श्चप्रमुदाऽन्वितः । उपायेन जरासंधं निहत्य शाल्वमेव च
कालयामास यज्ञं च विधिबोधितदक्षिणम् । मुनीन्द्रैश्च नृपेन्द्रैश्च राजसूयमभीप्सितम्
शिशुपालं दन्तवक्त्रं तत्र यज्ञे जघान सः । अतीव निन्दां कुर्वन्तं सभायां सुरभूपयोः
पपात तच्छरीरं च जीवो गत्वा हरेः पद्म् । तं दृष्ट्वा तत्र सर्वेशं तुष्टावाऽऽगात्य माधवम्
शिशुपाल उवाच वेदानां जनकोऽसि त्वं वेदाङ्गानां च माधव । सुराणामसुराणां च प्राकृतानां च देहिनाम्
सूक्ष्मां विधाय सृष्टिं च कल्पभेदं करोषि च । मायया च स्वयं ब्रह्मा शंकरः शेष एव च
मनवो मुनयश्चैव देवाश्च सृष्टिपालकाः । कलांशेनापि कलया दिक्पालाश्च ग्रहादयः
स्वयं पुमान्स्वयं स्त्री च स्वयमेव नपुंसकः । कारणं च स्वयं कार्यं जन्यश्च जनकः स्वयम्
यन्त्रस्य च गुणो दोषो यन्त्रिणश्च श्रुतौश्रुतम् । सर्वे यन्त्रा भवान्यन्त्री त्वयि सर्वं प्रतिष्ठितम्
मम क्षमस्वापराधं मूढस्य द्वारिणस्तव । ब्रह्मशापात्कुबुद्धेश्च रक्ष रक्ष जगद्गुरो
इत्येवमुक्त्वा क्रमतो जयो विजय एव च । मुदा तौ ययतुः शीघ्रं वैकुण्ठद्वारमीप्सितम्
शिशुपालस्य स्तोत्रेण सर्वे ते विस्मयं ययुः । परिपूर्णतमं कृत्वा मेनिरे कृष्णमीश्वरम्
कारयित्वा राजसूयं भोजयामास ब्राह्मणान् । कुरुपाण्डवयुद्धं च कारयामास भेदतः
भुवो भारावतरणं चकार स कृपानिधिः । पुनर्ययौ द्वारकां च चिरं स्थित्वा नृपाज्ञया
विप्राया मृतवत्साया जीवयामास पुत्रकान् । मृतस्थानात्समानीय तन्मात्रे प्रददौ सुतान्
तद्दृष्ट्वा देवकी तुष्टा ययाचे मृतपुत्रकान् । मृतस्थानात्समानीय ददौ मात्रे सहोदरान्
सद्यो जहार दारिद्र्यं सुदाम्नो ब्राह्मणस्य च । समागतस्य स्वगृहाद्द्वारकां शरणार्थिनः