वस्त्रं दग्ध्वा समुत्तस्थौ ज्वलदग्निः सुरेश्वरः
कृष्णस्तद्वर्द्धनं दृष्ट्वा ससर्जापः स्वलीलया
विश्वौघं प्लावयामास मुखबिंदुजलं द्विज
ततःप्रभृति तेनाग्निस्तोयान्निर्वाणतां व्रजेत्
उत्तस्थौ तज्जलादेकः पुमान्स वरुणः स्मृतः
आविर्बभूव कन्यैका तद्वह्नेर्वामपार्श्वतः
जलेशस्य वामपार्श्वात्कन्या चैका बभूव सा 1.4.
बभूव पवनः श्रीमान्विभोर्निश्वासवायुतः
तस्य वायोर्वामपार्श्वात्कन्या चैका बभूव ह
कृष्णस्य कामबाणेन रेतःपातो बभूव ह
सहस्रवत्सरान्ते तड्डिम्भरूपं बभूव ह
यस्यैक लोमविवरे विश्वैकस्य व्यवस्थितिः
स एव षोडशांशोऽपि कृष्णस्य परमात्मनः
महार्णवे शयानः स पद्मपत्रं यथा जले
तौ जलाच्च समुत्थाय ब्रह्माणं हन्तुमुद्यतौ
बभूव मेदिनी कृत्स्ना कार्त्स्न्येन मेदसा तया
मम संदेहभेदार्थं तन्मे व्याख्यातुमर्हसि
सर्वादिसृष्टिकथनं यन्मया कथितं द्विज
सर्वादिसृष्टौ क्लृप्तौ च नारायणमहेश्वरौ
सर्वादौ ब्रह्मकल्पस्य चरितं कथितं द्विज
ब्राह्मवाराहपाद्माश्च कल्पाश्च त्रिविधा मुने
सत्यं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
त्रिशतैश्च षष्ट्यधिकैर्दिनैर्वर्षं च ब्रह्मणः
एतन्निमेषकालस्तु कृष्णस्य परमात्मनः
क्षुद्रकल्पा बहुतरास्ते संवर्तादयः स्मृताः 1.5.
ब्रह्मणश्च दिनेनैव स कल्पः परिकीर्तितः
ब्राह्मवाराहपाद्माश्च त्रयः कल्पा निरूपिताः
ब्राह्मे च मेदिनीं सृष्ट्वा स्रष्टा सृष्टिं चकार सः
वाराहे तां समुद्धृत्य लुप्तां मग्नां रसातलात्