तमुवाच जगन्नाथो हितं सत्यं पुरातनम् । ज्ञानं च वेदविहितं सर्वेषां च सतां मतम्
श्रीभगवानुवाच मा भेर्विप्र शिवांशस्त्वं किं न जानासि ज्ञानतः । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
अहमात्मा च सर्वेषां शावाः सर्वे मया विना । प्राणिदेहान्मयि गते यान्त्येव सर्वशक्तयः
जातावप्येक एवाहं व्यक्तावेव पृथक्पृथक् । यो भुङ्क्ते तस्य तृप्तिः स्यान्नान्येषां च कदाचन
पृथग्जीवादिसर्वेषां प्रतिमानं च प्राणिनाम् । परिपूर्णतमोऽहं च गोलोके रासमण्डले
श्रीदामशापाद्राधा सा मां द्रष्टुमक्षमाऽधुना । सर्वे चैवांशरूपेणा कलया च तदंशतः
रुक्मिणीमन्दिरे चांशोऽप्यन्यासां मन्दिरे कलाः । ममापि कुत्रचिच्चांशं कुत्र चिच्च कलाकलाः
कलाकलांशाः कुत्रापि प्रतिमासु च देहिषु । इत्युक्त्वा जगतां नाथो गृहस्याभ्यन्तरं ययौ दुर्वासाश्च प्रियां त्यक्त्वा श्रीहरेस्तपसे गतः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo मुनिकृष्णसंo द्वादशाधिकाशततमोऽध्यायः
अथ त्रयोदशाधिकशततमोऽध्यायः नारायण उवाच सशिष्यश्चापि दुर्वासास्त्यक्त्वा च द्वारकां पुरीम् । कैलासं प्रययौ भक्त्या शंकरं द्रष्टुमीश्वरम्
गत्वा मुनिश्च कैलासं प्रणनाम शिवं शिवाम् । तुष्टाव परया भक्त्या सशिष्यः प्रणतः शुचिः
तत्सर्वं कथयामास वृत्तान्तं श्रीहरेरपि । आत्मनस्तपसस्तत्त्वं स्ववैराग्यं च चेतमः
मुनेश्च वचनं श्रुत्वा प्रहस्य पार्वती सती। तमुवाच हितं सत्यं साक्षाच्छंकरमंनिधौ
पार्वत्युवाच धर्मतत्त्वं न जानासि धर्मिष्ठं मन्यसे स्वयम् । अनपत्यां परित्यज्य वव यासि तपसे मुने
अनपत्यां च युवतीं कुलजां च पतिव्रताम् । त्यक्त्वा भवेयुः संन्यासी ब्रह्मचारी यतीति वा
वाणिज्ये वा प्रवासे वा चिरं दूरं प्रयाति यः । तीर्थे वा तपसे वाऽपि मोक्षार्थं जन्म खण्डितुम्
न मोक्षस्तस्य भवति धर्मस्य स्खलनं ध्रुवम् । अभिशापेन भार्याया नरकं च परत्र य
इहैव च यशोनाश इत्याह कमलोद्भवः । द्वारकां गच्छ हे विप्र स्वधर्म रक्ष सांप्रतम्
एकानंशां मदंशां च धर्मतः परिपालय । पादपद्मार्जितं पादपद्मं सर्वसुदुर्लभम्
संततं शंभुना गीतं मुनीन्द्रैः सनकादिभिः । परित्यज सुरतरोः कृष्णस्य परमात्मनः
क्व यासि तपसे वत्स सुधां त्यक्त्वा मनोहराम् । श्रीकृष्णपादपद्मं च स्वप्ने जपति यो मुने
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः । यद्बाल्ये यच्च कौमारे वार्धके यच्च यौवने
कामतोऽकामतो वाऽपि भस्मीभूतं च पातकम् । साक्षाद्यो भारते वर्षे श्रीकृष्णचरणाम्बुजम्
दृष्ट्वा सद्यो भवेत्पूज्यो जीवन्मुक्तो भवेद्ध्रुवम् । कोटिजन्मार्जितात्सद्यः कृतपापाद्विमुच्यते
सर्वाण्येव हि तीर्थानि यतःपूतानि नित्यशः । तद्व्रतं तत्तपः सत्यं तत्पुण्यं तच्च पूजनम्
सफलं कृष्णसंबन्धि स्वजन्मखण्डनं यतः । कृष्णभक्तिविहीनश्च ब्राह्मणो वेदपारगः
तत्सङ्गाच्च तदालापा द्भक्तभक्तिः प्रणश्यति । कृष्णस्योच्छिष्टभोजी यः कुष्णभक्तश्च ब्राह्मणः
आवह्निपवनात्पूतः पूतं कर्तुं जगत्क्षमः । श्रीकृष्णं च परित्यज्य क्वयासि तपसे द्विज
तपसां फलमाप्नोति श्रीकृष्णस्मरणेन च । यतो भक्तिर्न च भवेच्छ्रीकृष्णे परमात्मनि
स गुरुः परमो वैरी करोति जन्म निष्फलम् । पार्वतीवचनं श्रुत्वा शंकरः प्रेमविह्वलः