जाम्बवतीं लक्ष्मणां च समुद्वाहं चकार सः । ताभिः सार्ध क्रमेणैव पुत्रत्पत्तिं चकार ह
एकस्यां दशपुत्राश्च कन्यकैका क्रमेण च । निहत्य नरकं दैत्यं सपुत्रं च नृपेश्वरम्
बलवन्तं मुरं दैत्यं जघान रणमूर्धनि । ददर्श कन्यास्तत्रस्थाः सहस्राणां च षोडश
शताधिका वयस्याश्च शश्वत्सुस्थिरयौवनाः । प्रफुल्लवदनाः सर्वा रत्नभूषणभूषिताः
शुभक्षणे च तासां च पाणिं जग्राह माधवः । ताभिः सार्धं स रेमे च क्रमेण च शुभक्षणे
एकस्यां दशपुत्राश्च कन्यकैका क्रमेणा च । हरेरेतान्यपत्यानि बभूवुश्च पृथक्पृथक्
एकदा द्वारकां रम्यां दुर्वासा मुनिपुंगवः । शिष्यैस्त्रिकोटिभिः सार्धमाजगामावलीलया
राजा महोग्रसेनश्च सपुत्रः सपुरोहितः । वसुदेवो वासुदेवोऽप्यक्रूरश्चोद्धवस्तथा
नीत्वा षोडशोपचारं प्रणेमुर्मुनिपुंगवम् । शुभार्शिषं च प्रददौ तेभ्यो ब्रह्मन्पृथक्पृथक्
एकानंशां च कन्यां तां ददौ तस्मै शुभक्षणे । मुक्तामाणिक्यङीरांश्च रत्नं च यौतकं ददौ
स रेमे रामया सार्ध माहेन्द्रे रत्नमन्दिरे । रत्नेन्द्रसारनिर्माणं ददौ तस्मै शुभाश्रमम्
एकदा स मुनिश्रेष्ठः समालोच्य स्वचेतसा । शयानं कृत्रचिद्रम्यपर्यङ्के रत्ननिर्मिते
श्रुतवन्तं पुराणं च श्रद्धया कुत्रचिद्धिभुम् । महोत्सवे नियुक्तं च कुत्रचित्प्राङ्गणे शुभे
तामबूलं भुक्तवन्तं च भक्त्या दत्तं च सत्यया । कुत्रचित्सेवितं तल्पे रुक्मिण्या श्चेतचामरैः
कालिन्दीसेपितपदं शयानं कुत्रचिन्मुदा । सर्वत्र समसंभाषां चकार भगवान्मुनिम्
विस्मयं प्रययौ विप्रौ दृष्ट्वा तत्परमाद्भुतम् । तुष्टाव जगतीनाथं रुक्मिणीमन्दिरे पुनः वसन्तं च सुधर्मायां सतां संसदि सुन्दरम्
दुर्वासा उवाच जय जय जगतां नाथ जितसर्व जनार्दन सर्वात्मक सर्वेश सर्वबीज पुरातन निर्गुण निरीह
निर्लिप्त निरञ्जन निराकार भक्तानुग्रहविग्रह सत्यम्वरूपसनातन निःस्वरूप नित्यनूतन
ब्रह्मेशशेषधनेशवन्दित पद्मया सेवितपादपद्म ब्रह्मज्योतिरनिर्वचनीय वेदाविदितगुणरूप महाकाशसंमाननीय परमात्मन्नमोऽस्तु ते
इत्येवमुक्त्वा मनसा हरेरनुमतेन च । प्रणम्य तस्थौ विप्रेन्द्रस्तत्रैव पुरतो हरेः
तमुवाच जगन्नाथो हितं सत्यं पुरातनम् । ज्ञानं च वेदविहितं सर्वेषां च सतां मतम्
श्रीभगवानुवाच मा भेर्विप्र शिवांशस्त्वं किं न जानासि ज्ञानतः । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
अहमात्मा च सर्वेषां शावाः सर्वे मया विना । प्राणिदेहान्मयि गते यान्त्येव सर्वशक्तयः
जातावप्येक एवाहं व्यक्तावेव पृथक्पृथक् । यो भुङ्क्ते तस्य तृप्तिः स्यान्नान्येषां च कदाचन
पृथग्जीवादिसर्वेषां प्रतिमानं च प्राणिनाम् । परिपूर्णतमोऽहं च गोलोके रासमण्डले
श्रीदामशापाद्राधा सा मां द्रष्टुमक्षमाऽधुना । सर्वे चैवांशरूपेणा कलया च तदंशतः
रुक्मिणीमन्दिरे चांशोऽप्यन्यासां मन्दिरे कलाः । ममापि कुत्रचिच्चांशं कुत्र चिच्च कलाकलाः
कलाकलांशाः कुत्रापि प्रतिमासु च देहिषु । इत्युक्त्वा जगतां नाथो गृहस्याभ्यन्तरं ययौ दुर्वासाश्च प्रियां त्यक्त्वा श्रीहरेस्तपसे गतः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo मुनिकृष्णसंo द्वादशाधिकाशततमोऽध्यायः
अथ त्रयोदशाधिकशततमोऽध्यायः नारायण उवाच सशिष्यश्चापि दुर्वासास्त्यक्त्वा च द्वारकां पुरीम् । कैलासं प्रययौ भक्त्या शंकरं द्रष्टुमीश्वरम्