ददर्श रुक्मिणीं देवीमतीव नवयौवनाम् । रत्नपर्यङ्कमारुह्य शयानां सस्मितां मुदा
अप्रौढां च नवोढां तां नवसंगमलज्जिताम् । अमूल्यरत्ननिर्माणभूषणेन विभूषिताम्
सुचारुकबरीभारां मालतीमल्यभूषिताम् । दृष्टवा कृष्णां भीष्मकन्या सहसा प्रणनाम सा
तां संप्राप्य जगन्नाथो रत्नतल्पे उवास सः । शुभक्षणे च शुभया स रेमे रामया सह
सुखसंभोगमात्रेण मूर्च्छामाप मुदा सती । तस्यां जज्ञे कामदेवो भस्मीभूतदश्च शंभुना
स शम्बरं निहत्यैव तत्र प्राप रतिं सतीम् । रतिर्मायावतीनाम्ना संकेतेन सुरस्य च
नरद उवाच जहार शम्बरं कामो दैत्यं केन प्रकारतः । कथयस्व माहाभाग विस्तरेण शुभां कथाम्
नारायण उवाच समतीते च सप्ताहे रुक्मिणीसूतिकागृहात् । गृहीत्वा बालकं दैत्यो जगाम् स्वालयं जवात्
अपुत्रकश्च दैत्येशः पुत्रं प्राप्य प्रहर्षितः । मायावत्यै ददौ हृष्टो हृष्टा मायावती सती
अतीव पालनेनैव वर्धयामास बारकम् । सरस्वती तां रहसि कथयामास निर्जने
सरस्वत्युवाच शिवकोपानले पूर्व भस्मीभूतः पतिस्तव । स चायं रुक्मिणीपुत्रो दैत्येनैव समाहृतः
माययाऽपि च मायेशो रुक्मिणीसूतिकागृहात् । समानीय ददौ तुभ्यं पतिस्तेऽयं न चाऽऽत्मजः
कामं च कथयामास जगन्माता च सा सती । तव पत्नी रतिश्चेयं रमस्व रामया सह
त्वमेव रुक्मिणीपुत्रो नान्यदैत्यस्य मन्मथः । कुररीव सती नित्यं रोदिति स्म त्वया विना
इत्युक्त्वा च ययौ वाणी ब्रह्माणी ब्रह्मणः पदम् ।स रेमे निर्जने नित्यं रामया सह सुन्दरः
एकदा मन्मथं दैत्यौ ददर्श रहसि श्थितम् । शृङ्गारं रामया सार्धं कुर्वन्तं कौतुकेन च
सस्मितं सस्मितायाश्च मध्यवक्षःस्थलस्थितम् । रतिं ददर्श कामेन मूर्च्छितां सुरतोत्सुकाम्
दृष्ट्वा चुकोप दैत्यश्च जग्राह खड्गमुत्तमम् । उवाच खड्गहस्तश्च कामदेवं रतिं सतीम्
शम्वर उवाच धिक्त्वां महाकामुकं च मूर्खं पण्डितमानिनम् । महापातकिनां श्रेष्ठं प्रमत्तं मातृगामिनम्
धिक्त्वां च पुंश्चलीं मत्तां कामुकीं हतचेतनाम् । पुत्रं गृहीत्वा रहसि कलोषि सुरतिं सति
इत्येवमुक्त्वा खड्गं च तामेव हन्तुमृद्यतः । जिघांसन्तं रतिं देत्यं प्रेरयामास मन्मथः
पपात दूरतो ब्रह्मन्मूर्च्छितः स्वाङ्गपीडितः । पुनश्च चेतनां प्राप्य कोपेन प्रज्वलन्निव
शिवदत्तं च शूलं च जग्राह निर्भरेण च । शतसूर्यप्रभं शूलं प्रलयाग्निसमं मुने
दृष्ट्वाऽऽजग्मुश्च देवाश्च ब्रह्मेशशेषसंज्ञकाः । पवनः कथयामास कर्णे कामस्य यत्नतः
स्मर स्मर महामायां दुर्गां तुर्गतिनाशिनीम् । पवनस्य वचः श्रुत्वा दुर्गां सस्मार मन्मथः
शूलं बभूव तस्याङ्गे रम्यं माल्यं मनोहरम् । ब्रह्मास्त्रेण च तं दैत्यं जघान मन्मथो मुदा
रतिं गृहीत्वा यानेन जगाम द्वारकां पुरीम् । प्रययुर्देवताः सर्वा स्तुत्वा च पार्वतीं स्वयम्
रुक्मिणी मङ्गलं कृत्वा प्रजग्राह रतिं सुतम् । उत्सवं कारयामास परं स्वस्त्ययनं हरिः
ब्राह्मणान्भोजयामास पूजयामास पार्वतीम्र । अथ कृष्णः क्रमेणैव वेदोक्ते मङ्गले दिने
सप्तानां रमणीनां च पाणिग्राहं चकार ह । कालिन्दीं सत्यभामां च सत्या राग्निजितीं सतीम्