धात्री माताऽहमेतेषां मूलप्रकृतिरीश्वरी । तेन राधा समाख्याता हरिणा च पुरा बुधैः
अहं सुदामशापेन वृषभानसुताऽधुना । शतवर्षं च विच्छेदो हरिणा सह सांप्रतम्
वृषभानश्च कृष्णस्य पार्षदप्रवरो महान् । पितॄणां मानसी कन्या मम माता कलावती
अयोनिसंभवाऽहं च मम माता च भारते । पुनः सार्थं च युष्माभिर्यास्यामि श्रीहरेः पदम्
इति ते कथितं सर्वं व्रजं व्रज व्रजेश्वरि । व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति
ममाधुना च भवती ध्यानस्य व्यवधानिका । ध्यानभङ्गे महादोषो नराणामपि सुन्दरि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo राधायशोदासंo एकादशाधिकशततमोऽध्यायः
अथ द्वादशाधिकशततमोऽध्यायः नारायण उवाच वासुदेवो द्वारकायां वसुदेवाज्ञया मुने । प्रययौ रत्नरुचिरं रुक्मिणीमन्दिरं वरम्
शुद्धस्फटिकसंकाशममूल्यरत्ननिर्मितम् । पुरतः परितो रम्यं नानाचित्रेण चित्रितम्
अमूल्यरत्नकलशं श्वेतचामरदर्पणैः । वहनिशुद्धाशुकैः शुद्धैः परितः परिशोभितम्
ददर्श रुक्मिणीं देवीमतीव नवयौवनाम् । रत्नपर्यङ्कमारुह्य शयानां सस्मितां मुदा
अप्रौढां च नवोढां तां नवसंगमलज्जिताम् । अमूल्यरत्ननिर्माणभूषणेन विभूषिताम्
सुचारुकबरीभारां मालतीमल्यभूषिताम् । दृष्टवा कृष्णां भीष्मकन्या सहसा प्रणनाम सा
तां संप्राप्य जगन्नाथो रत्नतल्पे उवास सः । शुभक्षणे च शुभया स रेमे रामया सह
सुखसंभोगमात्रेण मूर्च्छामाप मुदा सती । तस्यां जज्ञे कामदेवो भस्मीभूतदश्च शंभुना
स शम्बरं निहत्यैव तत्र प्राप रतिं सतीम् । रतिर्मायावतीनाम्ना संकेतेन सुरस्य च
नरद उवाच जहार शम्बरं कामो दैत्यं केन प्रकारतः । कथयस्व माहाभाग विस्तरेण शुभां कथाम्
नारायण उवाच समतीते च सप्ताहे रुक्मिणीसूतिकागृहात् । गृहीत्वा बालकं दैत्यो जगाम् स्वालयं जवात्
अपुत्रकश्च दैत्येशः पुत्रं प्राप्य प्रहर्षितः । मायावत्यै ददौ हृष्टो हृष्टा मायावती सती
अतीव पालनेनैव वर्धयामास बारकम् । सरस्वती तां रहसि कथयामास निर्जने
सरस्वत्युवाच शिवकोपानले पूर्व भस्मीभूतः पतिस्तव । स चायं रुक्मिणीपुत्रो दैत्येनैव समाहृतः
माययाऽपि च मायेशो रुक्मिणीसूतिकागृहात् । समानीय ददौ तुभ्यं पतिस्तेऽयं न चाऽऽत्मजः
कामं च कथयामास जगन्माता च सा सती । तव पत्नी रतिश्चेयं रमस्व रामया सह
त्वमेव रुक्मिणीपुत्रो नान्यदैत्यस्य मन्मथः । कुररीव सती नित्यं रोदिति स्म त्वया विना
इत्युक्त्वा च ययौ वाणी ब्रह्माणी ब्रह्मणः पदम् ।स रेमे निर्जने नित्यं रामया सह सुन्दरः
एकदा मन्मथं दैत्यौ ददर्श रहसि श्थितम् । शृङ्गारं रामया सार्धं कुर्वन्तं कौतुकेन च
सस्मितं सस्मितायाश्च मध्यवक्षःस्थलस्थितम् । रतिं ददर्श कामेन मूर्च्छितां सुरतोत्सुकाम्
दृष्ट्वा चुकोप दैत्यश्च जग्राह खड्गमुत्तमम् । उवाच खड्गहस्तश्च कामदेवं रतिं सतीम्
शम्वर उवाच धिक्त्वां महाकामुकं च मूर्खं पण्डितमानिनम् । महापातकिनां श्रेष्ठं प्रमत्तं मातृगामिनम्
धिक्त्वां च पुंश्चलीं मत्तां कामुकीं हतचेतनाम् । पुत्रं गृहीत्वा रहसि कलोषि सुरतिं सति