ब्रह्मेशशेषादिभवैश्च वन्द्यं ध्यानैर्न किंचित्सनकादिभिश्च । वेदैः पुराणैर्न निरूपितं च भजस्व भक्त्या नवनीतचोरम्
क्व चापि दुग्धं क्व दघि घृतं वा नवोद्धृतं वा क्व च तक्रमीप्सितम् । तेषां क्व चोरोभवतिं क्व चापि क्व बन्धनं ते भवमूलमध्ये
न योगिभिः सिद्धगणैर्मुनीन्द्रैर्न भक्तसंघैर्भवपद्मशेषैः । योगैर्न बद्धो न हि रक्षितुं क्षमैः कथं स वद्धस्तव मूलमध्यतः
प्रम्णानु भक्त्या स्तवनेन पूजया भजस्व पुत्रं तरसा च भारते । हृत्पद्ममध्ये स्थितमीश्वरं परं ध्यानेन यत्नेन च संततं सति
वरं वृणुष्व भद्रं ते यत्ते मनसि वाञ्छितम् । सर्वं दास्यामि जगति देवानामपि दुर्लभम्
यशोदोवाच हरौ च निश्चला भक्तिस्तद्दास्यं वाञ्छितं मम । तव नाम्नश्च व्युत्पत्तिः का वा तद्वक्तुमर्हसि
राधिकोवाच भवेद्भक्तिर्निश्चला ते हरेर्दास्यं च दुर्लभम् । लभस्व मद्वरेणापि कथयामि सुनिर्णयम्
पुरा नन्देन दृष्टाऽहं भाण्डीरे वटमूलके । मया च कथितो नन्दो निषिद्धश्च प्रजेश्वरः
अहमेव स्वयं राधा छाया रायणकामिनी । रायणः श्रीहरेरंशः पार्षदप्रवरो महान्
राशब्दश्च महाविष्णुर्विश्वानि यस्य लोमसु । विश्वप्राणिषु विश्वेषु धा धात्री मातृवाचकः
धात्री माताऽहमेतेषां मूलप्रकृतिरीश्वरी । तेन राधा समाख्याता हरिणा च पुरा बुधैः
अहं सुदामशापेन वृषभानसुताऽधुना । शतवर्षं च विच्छेदो हरिणा सह सांप्रतम्
वृषभानश्च कृष्णस्य पार्षदप्रवरो महान् । पितॄणां मानसी कन्या मम माता कलावती
अयोनिसंभवाऽहं च मम माता च भारते । पुनः सार्थं च युष्माभिर्यास्यामि श्रीहरेः पदम्
इति ते कथितं सर्वं व्रजं व्रज व्रजेश्वरि । व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति
ममाधुना च भवती ध्यानस्य व्यवधानिका । ध्यानभङ्गे महादोषो नराणामपि सुन्दरि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo राधायशोदासंo एकादशाधिकशततमोऽध्यायः
अथ द्वादशाधिकशततमोऽध्यायः नारायण उवाच वासुदेवो द्वारकायां वसुदेवाज्ञया मुने । प्रययौ रत्नरुचिरं रुक्मिणीमन्दिरं वरम्
शुद्धस्फटिकसंकाशममूल्यरत्ननिर्मितम् । पुरतः परितो रम्यं नानाचित्रेण चित्रितम्
अमूल्यरत्नकलशं श्वेतचामरदर्पणैः । वहनिशुद्धाशुकैः शुद्धैः परितः परिशोभितम्
ददर्श रुक्मिणीं देवीमतीव नवयौवनाम् । रत्नपर्यङ्कमारुह्य शयानां सस्मितां मुदा
अप्रौढां च नवोढां तां नवसंगमलज्जिताम् । अमूल्यरत्ननिर्माणभूषणेन विभूषिताम्
सुचारुकबरीभारां मालतीमल्यभूषिताम् । दृष्टवा कृष्णां भीष्मकन्या सहसा प्रणनाम सा
तां संप्राप्य जगन्नाथो रत्नतल्पे उवास सः । शुभक्षणे च शुभया स रेमे रामया सह
सुखसंभोगमात्रेण मूर्च्छामाप मुदा सती । तस्यां जज्ञे कामदेवो भस्मीभूतदश्च शंभुना
स शम्बरं निहत्यैव तत्र प्राप रतिं सतीम् । रतिर्मायावतीनाम्ना संकेतेन सुरस्य च
नरद उवाच जहार शम्बरं कामो दैत्यं केन प्रकारतः । कथयस्व माहाभाग विस्तरेण शुभां कथाम्
नारायण उवाच समतीते च सप्ताहे रुक्मिणीसूतिकागृहात् । गृहीत्वा बालकं दैत्यो जगाम् स्वालयं जवात्
अपुत्रकश्च दैत्येशः पुत्रं प्राप्य प्रहर्षितः । मायावत्यै ददौ हृष्टो हृष्टा मायावती सती
अतीव पालनेनैव वर्धयामास बारकम् । सरस्वती तां रहसि कथयामास निर्जने