निर्मला निरहङ्कारा साध्वी नारायणप्रिया
विष्णुभूषणरूपा च विष्णुपादस्थिता सती
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा
कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी
यत्स्पर्शदर्शं वाञ्छन्ति तीर्थानामात्मशुद्धये 2.1.
मोक्षदा या मुमुक्षूणां कामिनां सर्वकामदा
त्राणाय भारतानां च पूजानां परदेवता
शङ्करप्रियशिष्या च महाज्ञानविशारदा
नागेश्वरी नागमाता सुन्दरी नागवाहिनी
नागेन्द्रवन्दिता सिद्धयोगिनी नागवासिनी
तपःस्वरूपा तपसां फलदात्री तपस्विनी
तपस्विनीषु पूज्या च तपस्विषु च भारते
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्
मातृका सा पूज्यतमा सा च षष्ठी प्रकीर्त्तिता 2.1.
तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी
पुत्रपौत्रप्रदात्री च धात्री च जगतां सदा
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी
पूजा च सूतिकागारे परषष्ठदिने शिशोः
शश्वन्नियमिता चैषा नित्या काम्याऽप्यतः परा
जले स्थले चान्तरिक्षे शिशूनां स्वप्नगोचरा
प्रकृतेर्मुखसंभूता सर्वमङ्गलदा सदा
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता
पञ्चोपचारैर्भक्त्या च योषिद्भिः परिपूजिता
शोक सन्तापपापार्त्तिदुःखदारिद्र्यनाशिनी 2.1.
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी
दुर्गाललाटसंभूता रणे शुम्भनिशुम्भयोः
कोटिसूर्य्यप्रभाजुष्टदिव्यसुन्दरविग्रहा
सर्वसिद्धिप्रदा देवी परमा सिद्धियोगिनी कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी
ब्रह्माण्डं सकलं हर्तुं शक्ता निःश्वासमात्रतः