जन्मकोटिसहस्राणां पातकादेव मुच्यते । राशब्दो विश्ववचनो मश्चापीश्वरवाचकः
विश्वानामीश्वरो यो हि तेन रामः प्रकीर्तितः । रमते रमया सार्वं तेन रामं विदुर्बुधा
रमाया रमणस्थानं रामं रामविदो विदुः । राश्चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः
लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः । नाम्नां सहस्रं दिव्यानां स्मरणे यत्फलं लभेत्
तत्फलं लभते नूनं रामोच्चारणमात्रतः । सारूप्यमुक्तिवचनो सारेति च विदुर्बुधाः
यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः । नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम्
यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः । सकृन्नारायणेत्युक्त्वा पुमान्कल्मशतत्रयम्
गङ्गादिसर्वतीर्थेषु स्नातो भवति निश्चितम् । नारं च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम्
तयोर्ज्ञानं भवेद्यस्मात्सोऽयं नारायणः प्रभुः । नास्त्यन्तो यस्य वेदेषु पुराणेषु चतुर्षु च
शास्त्रेष्वन्येषु योगेषु तेनानन्तं विदुर्बुधाः । मुकुमध्ययमानं च निर्वाणं मोक्षवाचकम्
* तद्ददाति च यो देवो मुकुंदस्तेन कीर्तितः । मुकुं भक्तिरसप्रेमवचनं वेदसंमतम्
** यस्तं ददाति भक्तेभ्यो मुकंदस्तेन कीर्तितः । सूदनं मधुदैत्यस्य यस्मात्स मधुसूदनः
इति सन्तो वदन्तीशं वेदे भिन्नार्थमीप्सितम् । मधु क्लीबं च माध्वीके कृतकर्मशुभाशुभे
भक्तानां कर्मणां चैव सूदनं मधुसूदनः । परिणामाशुभं कर्मं भ्रान्तानां मधुरं मधु
करोति सूदनं यो हि स एव मधुसूदनः । कृषिरुत्कृष्टवचनो णश्च सद्भक्तिवाचकः
अश्चापि दातृवचनः कृष्णं तेन विदुर्बुधाः । कृषिश्च परमानन्दे णश्च तद्दास्यकर्मणि
तयोर्दाता च यो देवस्तेन कृष्णः प्रकीर्तितः । कोटिजन्मार्जिते पापे कृषिःक्लेशे च वर्तते
भक्तानां णश्च निर्वाणे तेन कृष्णः प्रकीर्तितः । नाम्नां सहस्रं दिव्यानां त्रिरावृत्त्या चयत्फलम्
एकावृत्त्या तु कृष्णस्य तत्फलं लभते नरः । कृष्णनाम्नः परं नाम न भूतं न भविष्यति
सर्वेभ्यश्च परं नाम कृष्णेति वैदिका विदुः । कृष्ण कृष्णोति हे गोपि यस्तं स्मरति नित्यशः
जलं भित्त्वा यथा पद्मं नरकादुद्धरेच्च सः । कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते
भस्मीभवन्ति सद्यस्तु महापातककोटयः । अश्वमेधसहस्रेभ्यः फलं कृष्णजपस्य च
वरं तेभ्यः पुनर्जन्म नातो भक्तपुनर्भवः । सर्वेषामपि यज्ञानां लक्षाणि च व्रतानि च
तीर्थस्नानानि सर्वाणि तपांस्यनशनानि च । वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम्
कृष्णनामजपस्यास्य कलां नार्हन्ति षोडशीम् । तेषां लोभा द्भवेत्स्वर्गफलं च सुचिरं नृणाम्
स्वर्कादवश्यं पुंसश्च जपकर्तुर्हरेः पदम् । के जले सर्वदेहेऽपि शयनं यस्य चाऽऽत्मनः
वदन्ति वैदिकाः सर्वे तं देवं केशवं परम् । कंसश्च पातके विघ्ने रोगे शोके च दानवे
तेषामरिर्निहन्ता च स कंसारिः प्रकीर्तितः । रुद्ररूपेण संहर्ता विश्वानामपि नित्यशः
भक्तानां पातकानां च हरिस्तेन प्रकीर्तितः । मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी
नारायणीति विख्याता विष्णुमाया सनातनी । महालक्ष्मीस्वरूपा च वेदमाता सरस्वती राधा वसुंधरा गङ्गा तासां स्वामी च माधवः