कृत्वा त्रिकालस्नानं च निर्मले यमुनाजले । कृत्वाऽष्टदलपद्मं च स्निग्धेन चन्दनेन च
ध्यानेन गर्गदत्तेन शुद्धेन मनसा सति । संपूज्य परमानन्दं सानन्दं व्रज तत्पदम्
कृत्वा निकृन्तनं कर्म पिदृभिः शतकैः सह । वैष्णवेन सहाऽऽलापं कुरुष्व सततं सति
वरं हुतवहज्वालां भक्तो वाञ्छति पञ्जरम् । वरं च कण्टके वासं वरं च विष्भक्षणम्
हरिभक्तिविहीनानां न सङ्गं नाशकारणम् । स्वयं नष्टो भक्तिहीनो बृद्धिणेदं करोति च
अङ्कुरो भक्तिवृक्षस्य भक्तसङ्गेन वर्धते । परं हरिकथालापपीयूषासेचनेन च
अभक्तालापदीपाग्निज्वालायाः कलयापि च । अङ्कुरः शुष्कतां याति पुनः सेकेन वर्धते
तस्मादभक्तसङ्गं च सावधानः परित्यज । यथा दृष्ट्वा कालसर्पं नरो भीत्वा पलायते
यशोदे च प्रयत्नेन स्वात्मनः पुत्रमीश्वरम् । राम नारायणनन्त मुकुन्द मधुसूदन
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन । इत्येकादश नामानि पठेद्वा पाठयेदिति
जन्मकोटिसहस्राणां पातकादेव मुच्यते । राशब्दो विश्ववचनो मश्चापीश्वरवाचकः
विश्वानामीश्वरो यो हि तेन रामः प्रकीर्तितः । रमते रमया सार्वं तेन रामं विदुर्बुधा
रमाया रमणस्थानं रामं रामविदो विदुः । राश्चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः
लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः । नाम्नां सहस्रं दिव्यानां स्मरणे यत्फलं लभेत्
तत्फलं लभते नूनं रामोच्चारणमात्रतः । सारूप्यमुक्तिवचनो सारेति च विदुर्बुधाः
यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः । नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम्
यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः । सकृन्नारायणेत्युक्त्वा पुमान्कल्मशतत्रयम्
गङ्गादिसर्वतीर्थेषु स्नातो भवति निश्चितम् । नारं च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम्
तयोर्ज्ञानं भवेद्यस्मात्सोऽयं नारायणः प्रभुः । नास्त्यन्तो यस्य वेदेषु पुराणेषु चतुर्षु च
शास्त्रेष्वन्येषु योगेषु तेनानन्तं विदुर्बुधाः । मुकुमध्ययमानं च निर्वाणं मोक्षवाचकम्
* तद्ददाति च यो देवो मुकुंदस्तेन कीर्तितः । मुकुं भक्तिरसप्रेमवचनं वेदसंमतम्
** यस्तं ददाति भक्तेभ्यो मुकंदस्तेन कीर्तितः । सूदनं मधुदैत्यस्य यस्मात्स मधुसूदनः
इति सन्तो वदन्तीशं वेदे भिन्नार्थमीप्सितम् । मधु क्लीबं च माध्वीके कृतकर्मशुभाशुभे
भक्तानां कर्मणां चैव सूदनं मधुसूदनः । परिणामाशुभं कर्मं भ्रान्तानां मधुरं मधु
करोति सूदनं यो हि स एव मधुसूदनः । कृषिरुत्कृष्टवचनो णश्च सद्भक्तिवाचकः
अश्चापि दातृवचनः कृष्णं तेन विदुर्बुधाः । कृषिश्च परमानन्दे णश्च तद्दास्यकर्मणि
तयोर्दाता च यो देवस्तेन कृष्णः प्रकीर्तितः । कोटिजन्मार्जिते पापे कृषिःक्लेशे च वर्तते
भक्तानां णश्च निर्वाणे तेन कृष्णः प्रकीर्तितः । नाम्नां सहस्रं दिव्यानां त्रिरावृत्त्या चयत्फलम्
एकावृत्त्या तु कृष्णस्य तत्फलं लभते नरः । कृष्णनाम्नः परं नाम न भूतं न भविष्यति
सर्वेभ्यश्च परं नाम कृष्णेति वैदिका विदुः । कृष्ण कृष्णोति हे गोपि यस्तं स्मरति नित्यशः