पङ्कस्थे पङ्कजदले सजले चन्दनार्चिते । शयानां शुष्कितौष्ठीं च साश्रुनेत्रां च मूर्च्छिताम्
ध्यायमानां पदाम्भोजं कृष्णस्य परमात्मनः । बाह्यज्ञानपरित्यक्तां तन्नि विष्टैकमानसाम्
पश्यन्तीं सस्मितं कान्तं पश्यन्तीं तन्मुखाम्बुजम् । हसन्तीं च रुदन्तीं च स्वप्ने कान्तसमीपतः
सखीभिः परितः शश्वत्सेवितां श्चेतचामरैः । दिवानिशं रक्षितां च गोपीभिः शतकोटिभिः
सावधानपराभिश्च वेत्रहस्ताभिरीश्वरीम् । सप्तद्वारेषु युक्ताभिः परितः प्राङ्गणेषु च
तां दृष्ट्वा विस्मयं प्राप्य सभार्यो नन्द एव च । ननाम परया भक्त्या दण्डवत्प्रणिपत्य च
निद्रां त्याक्त्वा च सहसा बुबुधे सेश्वरेच्छया । क्षणेन चेतनां प्राप विषयज्ञानवर्चिताम्
पुरतो दंपती दृष्ट्वा पप्रच्छ सादरं सती । उवाच मधुरं चैवं तत्रैव सखिसंसदि
राधिकोवाच कस्त्वं चात्र समायातो ब्रूहि वा किं प्रयोजनम् । न च मे विषयज्ञानं न जानामि नरं पशुम्
किं जलं वा स्थलं किंवा नक्तं तिनं श्रुणु । स्त्रियं पुमांसं क्लीबं वा नाहं जानामि भेदाकम्
राधिकावचनं श्रुत्वा नन्दश्च विस्मयं ययौ । भीता यशोदा निकटं गोपीसंभाषिता ययौ
उवास निकटे तस्याः समुवाच प्रियं वचः । उवास तत्र नन्दश्च गोपीदत्तासनेन च
यशोदोवाच चेतनं कुरु राधे त्वमात्मानं रक्ष यत्नतः । द्रक्ष्यसि प्राणनाथं च संप्राप्ते मङ्गले दिने
त्वत्तो विश्वं पवित्रं च स्वकुलं च सुरेश्वरि । गोप्यश्च पुण्यवत्यश्च त्वत्पादाम्बुजसेवया
लोका गास्यन्ति त्वत्कीर्तितीर्थपूतां सुमङ्गलाम् । सन्तो वेदाश्च चत्वारः पुराणानि पुरातनीम्
अहं यशोदा नन्दोऽयं बुद्धिरूपे निबोध माम् । वृषभानसुता त्वं च मां निशामय सुव्रते
द्वारकानगराद्भद्रे श्रीकृष्णसंनिधानतः । तवान्तिकमागताऽहं प्रेरिता हरिणा सति
शृणु मङ्गलवार्तां च मङ्गलं च गदाभृतः । आराद्द्रक्ष्यसि कृष्णं तं हे देवि चेतनं कुरु
भक्त्या त्मकं परिज्ञानं देहि मह्यं च सांप्रतम् । त्वद्भर्तुरुपदेशेन त्वत्समीपं समागतौ
पश्चदायास्यति हरिस्त्वां मुहूर्तं वरानने । भविष्यत्यचिरेणैव श्रीदाम्नः शापमोचनम्
यशोदावचनं श्रुत्वा वार्तां प्राप्य गदाभृतः । श्रीकृष्णनामस्मरणाद्दूरिभूतममङ्गलम्
संप्राप चेतनं राधा संभाव्य कृष्णमातरम् । उवाच मधुरं शान्ता लौकिकीं भक्तिमुत्तमाम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधायशोदासंo दशाधिकशततमोऽध्यायः
अथैकादशाधिकशततमोऽध्यायः राधिकोवाच ज्ञानात्मकश्च परमो ब्रह्मेशशेषपूजितः । ज्ञानं च न ददौ तुभ्यं मन्मुलं प्रेषिता सति
तेनैव च्छद्मना तुभ्यं भावार्थं बोधयामि किम् । वेदाः सन्तश्च भावार्थं नैव जानन्ति तस्य च
स्त्रीजातिरबला मूढा वक्तुतोऽज्ञानतत्परा । ततस्तद्विरहेणैव संततं हतचेतना
किं वाऽहं कथयिष्यामि ज्ञानं पञ्चविधेषु च । भक्त्यात्मकं सर्वपरं निबोध कथयामि ते
श्रीकृष्णस्य वरेणापि न साधो निर्भयो भव । गोलोके चापि पतनं संभवेच्च कुयोगिनः
तस्मात्सर्वं परित्यज्य भजस्व परमेश्वरम् । पुत्रबुद्धिं परित्यज्य ब्रह्मरूपं निशामय
यशोदे भवती सर्वे परित्यज्य च नश्वरम् । गत्वा वृन्दावनं रम्यं पुण्यक्षेत्रं च भारतम्