गचेन्द्राणां सहस्रं च षङ्गुणं च तुरंगमम् । दासीनां च सहस्रं च किंकराणां शतं शतम्
रत्नानां च सहस्रं चैवामुल्यरत्नभूषणम् । स्वर्णानां परिशुद्धानां पञ्चलक्षं च सादरम
तोयभोजनपात्राणि कुतानि विश्वकर्मणा । सौवर्णानि च रम्याणि सुरभीः प्रददौ मुदा
दुग्धवतीनां धेनुनां सवत्सानां सहस्रकम् । अमूल्यानि च रम्याणि वह्निशुद्धांशुकानि च
वसुदेवश्चोग्रसेनो देवैश्च मुनीभिः सह । प्रहृष्टवदनः शीघ्रं द्वारकाभिसुखं ययौ
प्रविश्य स्वपुरीं रम्या कारयामास मङ्गलम् । वाद्यं च वादयामास सुन्दरं सुमनोहरम्
देवकी रोहिणी रम्या यशोदा नन्दगेहिनी । अदितिश्च दितिश्चैव तथा च वरकामिनी
श्रीकृष्णं रुक्मिणीं रम्यां विलोक्य च पुनः पुनः । गृहं प्रवेशयामास कारयामास मङ्गलम्
चतुर्विधं भोजयित्वा देवांश्च मुनिपुंगवान् । नृपांश्च बान्धवांश्चैव परीहारं चकार च
भट्टेभ्यो ब्राह्मणेभ्योऽपि ददौ रत्नादिकं मुदा । तांश्चपि भोजयामास परितुष्टांश्च सस्मितान्
एवं भुक्त्वा धनं लब्ध्वा ययुः सर्वे गृहं मुदा । मङ्गलं कारयामास वसुदेवस्य वल्लभा
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo रुक्मिण्यु- द्वाहो नाम नवाधिकशततमोऽध्यायः
अथ दशाधिकशततमोऽध्यायः नारायण उवाच आगतेषु गतेष्वेवं साङ्गे मङ्गलकर्मणि । नन्दो यशोदया सार्ध पुत्राभ्याशं समाययौ
यशोदोवाच ज्ञानं च भवता दत्तं पित्रे नन्दाय माधव । मां चापि मातरं वत्स कृपां कुरु कृपानिधे
मामुद्धर महाभाग धरोद्धारणकारण । भवाब्धितरणे भीमौ भीतां च पतितामपि
मायामयी सा प्रकृतिर्भवाब्धितरणे तरिः । त्वमेव कर्णधारश्च भक्तोत्तीर्णे कृपामय
यशोदावचनं श्रुत्वा जहास पुरुषोत्तमः । उवाच मातरं भक्त्या ज्ञानिनां च गुरोर्गुरुः
श्रीभगवानुवाच ज्ञानं योगात्मकं मातर्ज्ञानं च विषयात्मकम् । ज्ञानं भक्त्यात्मकं श्रेष्ठं मद्दास्यकारणं शुभम्
ज्ञानं पञ्चविधं प्रोक्तं सर्ववेदेषु संमतम् । भक्त्यात्मकं सर्वपरं तेषां च लक्षणं शृणु
क्षुत्पिपासादिकानां च खण्डनं स्वान्तशोधनम् । नाडीनां शोधनं चैव चक्राणामपि भेदनम्
शक्तिकुण्डलिनीयुक्तमीश्वरं चिन्तयेत्ततः । इन्द्रियाणां च दमनं लौभादीनां च वर्जनम्
मूलाधारं स्वधिष्ठानं मणिपूरमनाहतम् । विशुद्धं च तथा ज्ञाख्यं चक्रषट्कं प्रकीर्तितम्
नारीणामपि दुर्बोधं मुर्खाणां च विशेषतः । ज्ञानं योगात्मकं साध्वि सिद्धानां साध्यमीप्सितम्
जन्तूनामपि सर्वेषां ज्ञानं स्वविषये तथा । सन्तः सर्वे विजानन्ति स्वेच्छया च मदीयया
सिद्ध्यात्मकं च सिद्धानां नियुक्तं सर्वकर्मसु । चतुस्त्रिंशत्सु सिद्धानां साधनं बोधनं तथा
ज्ञानं मौक्षात्मकं सिद्धं परं निर्वाणकारणम् । निवृत्तिमार्गमारूढं भक्तस्तत्रैव वाञ्छति
भक्त्यात्मकं च यज्ज्ञानं तुभ्यं राधा प्रदास्यति । तस्यां च मानवं भावं त्यक्त्वा ज्ञानं करिष्यति
नन्दाय दत्तं यज्ज्ञानं तच्च तुभ्यं प्रदास्यति । गच्छ नन्दव्रजं मातर्नन्देन सह सादरम्
इत्युक्त्वा विनयं कृत्वा जगामाभ्यन्तरं हरिः । नन्दो यशोदया सार्धं प्रययौ कदलीवनम्
ददर्श राधां तत्रैव निद्रितां त्यक्तभूषणम् । दधानां शुक्लवस्त्रं च निराहारां कृशोदरीम्