स्त्रीरत्नसारसंभूता कृष्णवक्षः स्थलस्थिता
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा
स्वप्नेऽपि नैव दृष्टः स्यात्प्रत्यक्षेऽपि च का कथा
कथिता पञ्चमी देवी सा राधा परिकीर्त्तिता
प्रकृतेः प्रतिविश्वं च रूपं स्यात्सर्वयोषितः 2.1.
या याः प्रधानांशरूपा वर्णयामि निशामय
विष्णुपादाब्जसंभूता द्रवरूपा सनातनी
दर्शनस्पर्शनस्नानपानैर्निर्वाणदायिनी
पवित्ररूपा तीर्थानां सरितां च परावरा
तपस्सम्पादिनी सद्यो भारते च तपस्विनाम्
निर्मला निरहङ्कारा साध्वी नारायणप्रिया
विष्णुभूषणरूपा च विष्णुपादस्थिता सती
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा
कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी
यत्स्पर्शदर्शं वाञ्छन्ति तीर्थानामात्मशुद्धये 2.1.
मोक्षदा या मुमुक्षूणां कामिनां सर्वकामदा
त्राणाय भारतानां च पूजानां परदेवता
शङ्करप्रियशिष्या च महाज्ञानविशारदा
नागेश्वरी नागमाता सुन्दरी नागवाहिनी
नागेन्द्रवन्दिता सिद्धयोगिनी नागवासिनी
तपःस्वरूपा तपसां फलदात्री तपस्विनी
तपस्विनीषु पूज्या च तपस्विषु च भारते
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्
मातृका सा पूज्यतमा सा च षष्ठी प्रकीर्त्तिता 2.1.
तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी
पुत्रपौत्रप्रदात्री च धात्री च जगतां सदा
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी
पूजा च सूतिकागारे परषष्ठदिने शिशोः
शश्वन्नियमिता चैषा नित्या काम्याऽप्यतः परा