पपाठ पत्रिकां कृष्णो देवीसंसदि सस्मितः । लक्ष्मी सरस्वती दुर्गा सावित्री राधिका सती
तुलसी पृथिवी गङ्गाऽरुन्धति यमुनाऽदितिः । शतरूपा च सीता च देवहूतिश्च मेनका
दैव्यश्चैताश्च दंपत्योः कुर्वन्तु परम् । पपाठ चेति कृष्णश्च शुश्रुवुर्जहसुश्च ताः
पार्वत्युवाचरुक्मिणीं रुक्मिणीकान्त त्वां पश्यन्तीं च सस्मिताम् । पश्य प्रौढां रुपवतीं सुन्दरीं नवयौवनाम्
शच्युवाच तव योग्या च युवती रत्नभूषणभूषिता । त्वां प्रार्थयन्ती सुचिरमवमन्यान्यमीश्वरम्
सावित्र्युवाच यथा वरस्तथा कन्या विधिना योजिता पुरा । विदग्धाया विदग्धेन सर्वत्र संगमः शुभः
रत्युवाच ईश्वरेण परीहासं का वा कर्तुं क्षमा भुवि । ध्यानासाध्यो दुराराध्यश्चावमन्यान्यमीश्वरम्
गायत्र्युवाच यथा वरस्तथा कन्या चाक्षुब्धे भैष्मके गृहे
रोहिण्युवाच सत्यं ब्रूहि जगन्नाथ कामिनीनां च संसदि । कीदृशी राधिका रम्या रुक्मिणी चापि कीदृशी
सरस्वत्युवाच राधायां यादृशी प्रीती रुक्मिण्यां नैव तादृशी । सा सङ्गिनी पूर्वकाले सर्वक्रीडासु वर्धिनी
प्राणाधिष्ठातुदेवी सा पञ्चप्राणाधिका सती । रुक्मिणी कमला साक्षात्संपदामधिदेवता
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः । बुद्धेरप्यधिदेवी च दुर्गा नारायणी परा
देवाधिष्ठातृदेवी त्वं सावित्री वेदमातृका । विद्याधिदेवताऽहं च ततोऽन्याश्च कलाकलाः
न ब्रह्मणि शिवे शेषे गणेशे च दिनेश्वरे । न भक्तेषु च पद्मायां न शिवायां च मय्यपि
प्रसादो यादृशस्तस्यामन्येषु च न तादृशः । त्रैलोक्ये पृथिवी धन्या सुपुण्यं भारतं यतः
तत्र वृन्दावनं धन्यं राधापादाब्जचिह्नितम् । सर्वासामपि देवीनां राधा पुण्यवती सती
राधापादाब्जनखरे ददौ स्निग्धमलक्तकम् । अयमेवमिति श्रुत्वा जहसुः सर्वयोषितः
ध्यायन्ते दूर्तः सर्वा राधा वक्षःस्थलस्थिता । तस्माद्राधां नमस्कृत्य तुलनां मन्यते किल
सरस्वतीवचः श्रुत्वा सावित्री पार्वती सती । अन्याश्च योषितः सर्वाः साध्वित्यूचुश्च संसदि
लोपामुद्राऽनसूया चाप्यहल्याऽरुन्धती तथा । सर्वास्ता मुनिपत्न्यश्च रभसं चक्रुरीश्वरम्
अथ देवांश्च भूपांश्च मुनीद्रांश्चापि भीष्मकः । पूजयामास विधिना भोजयामास सादरम्
खाद्यतां लोका दीयतां दीयतामिति । शब्दो बभूव नगरे वाद्यसंगीतमङ्गलैः
अथ प्रभाते ब्रह्मेशसेषास्त्रिदशास्तथा । यानमारोहणं भूपाश्चक्रिरे च त्वरान्विताः
राजा महोग्रसेनश्च वसुदेवस्त्वरान्वितः । कारयामास यात्रां च श्रीकृष्णं रुक्मिणीं सतीम्
सुभद्रा रुक्मिणीमाता कन्यां कृत्वा स्ववक्षसि । रुरोदोच्चैस्तत्सखीभिर्बान्धवैरित्युवाच सा
सुभद्रोवाच क्व यासि मां परित्यज्य वत्से मातरमीश्वरीम् । कथं जीवामि त्वां त्यक्त्वा कथं त्वं वाऽपि जीवसि
महालक्ष्मीर्मम गृहात्कन्यारूपा च मायया । वसुदेवालयं यासि वासुदेवप्रिया सतीः
इत्युक्त्वा कन्यकां शोकात्सिषेव नेत्रजैर्जलैः । भीष्मकः साश्रुनेत्रश्च कन्यां कृष्णे समर्प्य च
तं च कृत्वा परीहारं रुरोदोच्चैरतीव सः । रुरोद रुक्मिणी देवी श्रीकृष्णश्चापि मायया
रथमारोपयामास वसुदेवः सुतं वधूम् । एतस्मिन्नन्तरे राजा जामात्रे यौतुकं ददौ