इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्यु- द्वाहेऽष्टाधिकशाततमोऽध्यायः
अथ नवाधिकशततमोऽध्यायः नारायण उवाच एतस्मिन्नन्तरे राज्ञी रुक्मिणीजननी शभा । पतिपुत्रवतीभिश्च साध्वीभिः सहिता मुदा
आगत्य मङ्गलं कृत्वा तत्र निर्मञ्छनादिकम् । दंपती वेशयामास रत्ननिर्माणमन्दिरम्
नानाचित्रविचित्राढ्यं हीरहारेण भूषितम् । मुक्तामाणिक्यरत्नेन मुदीप्तं दर्पणेन च
ददर्श कृष्णस्तत्रैव दुर्गां दुर्गतिनाशिनीम् । सरस्वतीं च सावित्रीं रतिं च रोहिणीं सतीम्
देवपत्नीं राजपत्नीं मुनिपत्नीं पतिव्रताम् । रत्नमिहानस्थां च रत्नभूषणभूषिताम्
उत्तस्थुराराद्दृष्ट्वा च श्रीकृष्णं जगतीपतिम् । रत्नसिहासने रम्ये वारयामास तां मुदा
स्तुतिं चक्रुश्च देवाश्च मुनिपत्न्यश्च माधवम् । पुटाञ्जलियुतास्तत्र त्रमेण च पृधक्पृथक्
भोजयामास राज्ञी च वरेण सह कन्यकाम् । सकर्पूरं सताम्बूलं प्रददौ वासितं जलम्
दुर्गा कृष्णाय प्रददौ तत्र मङ्गलपत्रिकाम् । सर्वासामाज्ञया देवी पठेति तमुवाच सा
पपाठ पत्रिकां कृष्णो देवीसंसदि सस्मितः । लक्ष्मी सरस्वती दुर्गा सावित्री राधिका सती
तुलसी पृथिवी गङ्गाऽरुन्धति यमुनाऽदितिः । शतरूपा च सीता च देवहूतिश्च मेनका
दैव्यश्चैताश्च दंपत्योः कुर्वन्तु परम् । पपाठ चेति कृष्णश्च शुश्रुवुर्जहसुश्च ताः
पार्वत्युवाचरुक्मिणीं रुक्मिणीकान्त त्वां पश्यन्तीं च सस्मिताम् । पश्य प्रौढां रुपवतीं सुन्दरीं नवयौवनाम्
शच्युवाच तव योग्या च युवती रत्नभूषणभूषिता । त्वां प्रार्थयन्ती सुचिरमवमन्यान्यमीश्वरम्
सावित्र्युवाच यथा वरस्तथा कन्या विधिना योजिता पुरा । विदग्धाया विदग्धेन सर्वत्र संगमः शुभः
रत्युवाच ईश्वरेण परीहासं का वा कर्तुं क्षमा भुवि । ध्यानासाध्यो दुराराध्यश्चावमन्यान्यमीश्वरम्
गायत्र्युवाच यथा वरस्तथा कन्या चाक्षुब्धे भैष्मके गृहे
रोहिण्युवाच सत्यं ब्रूहि जगन्नाथ कामिनीनां च संसदि । कीदृशी राधिका रम्या रुक्मिणी चापि कीदृशी
सरस्वत्युवाच राधायां यादृशी प्रीती रुक्मिण्यां नैव तादृशी । सा सङ्गिनी पूर्वकाले सर्वक्रीडासु वर्धिनी
प्राणाधिष्ठातुदेवी सा पञ्चप्राणाधिका सती । रुक्मिणी कमला साक्षात्संपदामधिदेवता
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः । बुद्धेरप्यधिदेवी च दुर्गा नारायणी परा
देवाधिष्ठातृदेवी त्वं सावित्री वेदमातृका । विद्याधिदेवताऽहं च ततोऽन्याश्च कलाकलाः
न ब्रह्मणि शिवे शेषे गणेशे च दिनेश्वरे । न भक्तेषु च पद्मायां न शिवायां च मय्यपि
प्रसादो यादृशस्तस्यामन्येषु च न तादृशः । त्रैलोक्ये पृथिवी धन्या सुपुण्यं भारतं यतः
तत्र वृन्दावनं धन्यं राधापादाब्जचिह्नितम् । सर्वासामपि देवीनां राधा पुण्यवती सती
राधापादाब्जनखरे ददौ स्निग्धमलक्तकम् । अयमेवमिति श्रुत्वा जहसुः सर्वयोषितः
ध्यायन्ते दूर्तः सर्वा राधा वक्षःस्थलस्थिता । तस्माद्राधां नमस्कृत्य तुलनां मन्यते किल
सरस्वतीवचः श्रुत्वा सावित्री पार्वती सती । अन्याश्च योषितः सर्वाः साध्वित्यूचुश्च संसदि
लोपामुद्राऽनसूया चाप्यहल्याऽरुन्धती तथा । सर्वास्ता मुनिपत्न्यश्च रभसं चक्रुरीश्वरम्