इत्युक्त्वा भीष्मकः कृष्णं समानीय स्वयं पुरः । तुष्टाव सामवेदोक्तस्तोत्रेण परमेश्वरम्
भीष्मक उवाच सर्वान्तरात्मा सर्वेषां साक्षी निर्लिप्त एव च । कर्मिणां कर्मणामेव कारणानां च कारणम्
केचिद्वदन्ति त्वामेकं ज्योतीरूपं सनातनम् । केचिच्च परमात्मानं जीवो यत्प्रतिबिम्बकः
केचित्प्राकृतिकं जीवं सगृणं भ्रान्तबुद्धयः । केचिन्नित्यशरीरं च बुद्धा (धा) श्च सूक्ष्मबुद्धयः
ज्योतिरभ्यन्तरे नित्यं देहरूपं सनातनम् । कस्मात्तेजः प्रभवति साकारमीश्वरं विना
एवं स्तुत्वा स चाऽऽचान्तः स्मरन्विष्णुं च नारद । पाद्यं पद्मार्चिते पादपद्मे चायं ददौ मुदा
अर्ध्यं च प्रददौ तत्र दूर्वापुष्पजलान्वितम् । मधुपर्कं च सुरभिं सर्वाङ्गे गन्धयन्दनम्
यत्प्रदत्तं महेन्द्रेण शुभकर्मणि यौतुकम् । पारिजातस्य माल्यं च जामातुश्च गले ददौ
कुबेरेण च यदत्तममूल्यरत्नभूषणम् । चकार वरणं तस्य स राजा भक्तिपूर्वकम्
कह्निशुद्धांशुकयुगं यद्दत्तं वाह्निना पुरा । ददौ तदेव कृष्णाय परिपूर्णतमाय च
ज्वलितं रत्नमुकुटं यद्दत्तं विश्वकर्मणा । ददौ तन्मस्तके राजा कृष्णस्य परमात्मनः
धूपं रत्नप्रदीपं च नैवेद्यं सुमनोहरम् । नानाप्रकारपुष्पं च रत्नसिहासनं ददौ
सप्ततीर्थोदकं चैव पुनराचमनीयकम् । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
शय्यां रतिकरी रम्यां पानार्थं वासितं जलम् । कृत्वा च वरणं राजा परिहारं चकारतम्
कृताञ्जलिपुटो राजा तस्मै पुष्पाञ्जलीं ददौ
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे सप्ताधिकशततमोऽध्यायः
अथाष्टाधिकशततमोऽध्यायः नारायाण उवाच एतस्मिन्नन्तरे देवी महालक्ष्मीश्च रुक्मिणी । आजगाम सभामध्ये मुनिदेवादिभिर्युते
रत्नसिंहासनस्था च रत्नालंकारभूषिता । वह्निशुद्धाशुकाधाना कबरीभारभूषिता
पश्यन्ती सस्मिता साध्वीह्यमूल्यरत्नदर्पणम् । कस्तूरीबिन्दुभिर्युक्ता स्निग्धचन्दनचर्चिता
सिधूरबिदुना शश्वद्भालमध्यस्थलोज्ज्वला । तप्तकाञ्चनवर्णभा शतचन्द्रसमप्रभा
चन्दनोक्षितमर्वाङ्गा मालतीमाल्यशोभिता । सप्तभिर्नृपपुत्रैश्चसमानीता च बालकैः
देवेन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्रा नृपपुंगवाः । ददृशू रुक्मिणीं देवीं महालक्ष्मीं पतिव्रताम्
सप्तप्रदक्षिणाःकृत्वा प्रणम्य स्वपतिंसती । सिषेच शीततोयेन स्निग्धचन्दनपल्लवैः
तां सिषेच जगत्कान्तः कान्ता शान्तां च सस्मिताम् । ददर्श कान्तः कान्तां च कान्तं कान्ता शुभे क्षणे
अथ देवी पितुः क्रोडे समुवास शुभानना । लज्जया नम्रवदना ज्वलन्ती च स्वतेजसा
राजा देवेश्वरीं तस्मै परिबूर्णतमाय च । प्रददौ संप्रदानेन वेदमन्त्रेण नारद
वसुदेवाज्ञया कृष्णः स्वस्तीत्युक्त्वा स्थितो मुदा । जग्राह देवीं देवश्च भवानीं च भवो यथा
सुवर्णानां पञ्चलक्षं कृष्णाय परमात्मने । दक्षिणां तां ददौ राजा परिपूर्णतमाय च
शुभकर्मणि निष्पन्ने कृत्वा कन्यां च वक्षसि । रुरोद राजा मोहेन मुनिदेवेन्द्रसंसदि
परिहारेण वचसा कुत्वा तस्मै समर्पणम् । सिषेच कन्यां धन्यां च नेत्रयुग्मजलेन च