स्वयं विधाता जगतां प्रदाता सर्वसंपदाम् । स्वप्रे यत्पादपद्मं च द्रष्टुं नैव क्षमः प्रभो
तपसां फरदाता च संस्रष्टा प्राङ्गणे मम । स्वात्मारामेषु पूर्णेषु शुभप्रश्नमनीप्सितम्
योगीन्द्रैरपि सिद्धेन्द्रैः सुरेन्द्रैश्च मुनीन्द्रकैः । ध्यानादृष्टश्च यो देवः स शिवः प्राङ्गणे मम
कालस्य कालो भगवान्मृत्योर्मृत्युश्च यः प्रभुः । मृत्युंजयश्च सर्वेशोनराणां दृष्टिगोचरः
यस्यमूर्ध्नां सहस्रेषु मूर्ध्नि विश्वं चराचरम् । नास्त्यन्तः सर्ववेदेषु सोऽयं च मम प्राङ्गणे
सर्वकामप्रणेयो हि सर्वाग्रे यस्य पूजनम् । श्रेष्ठो देवगणानां च स गणेशो ममाङ्गणे
मुनीनां वैष्णवानां च प्रवनो ज्ञानिनां गुरुः । सनत्कुमारो भगवान्प्रत्यक्षः प्राङ्गणे मम
ब्रह्मपुत्राश्च पौत्राश्च प्रपौत्राश्चापि वंशजाः । ते सर्वे मदगृहेऽद्यैव ज्वलन्तो ब्रह्मतेजसा
अहो कल्पान्तपर्यन्तं तीर्थीभूतो ममाऽऽश्रमः । येषां पादोदकैस्तीर्थ विशुद्धं तद्गृहे मम
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । सागरे यानि तीर्थानि विप्रपादेषु तानि च
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत्पुष्करपत्रेषु पिबन्ति पितरो जलम्
विप्रपादोदकं भुक्त्वा दत्त्वा विप्राय दक्षिणाम् । स्रानानां सर्वतीर्थानां फलमाप्नोति निश्चितम्
निकृन्तनं च विपदां व्याधिनिर्मुलकारणम् । सुखदं शुभदं सारं विप्रपादोदकं नृणाम्
न गङ्गासदृशं तीर्थ न देवो माधवात्परः । सनत्कुमारा द्भक्तो न न हि कल्पतरोस्तरुः
न पुष्पं पारिजाताच्च न व्रतं हरिवासरात् । पूजने न हि पूज्यं च न पत्रं तुलसीपरम्
न देवी प्रकृतेश्चापि नाऽऽधारः पवनात्परः । न हि स्थूलो महाविष्णोर्न सूक्ष्मं परमाणुतः
न ब्राह्मणात्परः पूतो नाऽऽश्रमश्च न तीर्यकम् । न देवो न परः कोऽपि चेत्याह कमलोद्भवः
ब्रह्मविष्णुशिवादीनां प्रकृतेश्च परः प्रभुः । ध्यानासाध्यो दुराराध्यो योगिनामपि निश्चितम्
निर्गुणश्च निराकारो भक्तानुग्रहविग्रहः । स एव चक्षुषो नॄणां साक्षाद्देवश्च मद्गृहे
देवैर्ब्रह्मेशशेषैश्च ध्यातं यत्पादपङ्कजम् । धनेशेन गणेशेन दिनेशेनापि दुर्लभम्
इत्युक्त्वा भीष्मकः कृष्णं समानीय स्वयं पुरः । तुष्टाव सामवेदोक्तस्तोत्रेण परमेश्वरम्
भीष्मक उवाच सर्वान्तरात्मा सर्वेषां साक्षी निर्लिप्त एव च । कर्मिणां कर्मणामेव कारणानां च कारणम्
केचिद्वदन्ति त्वामेकं ज्योतीरूपं सनातनम् । केचिच्च परमात्मानं जीवो यत्प्रतिबिम्बकः
केचित्प्राकृतिकं जीवं सगृणं भ्रान्तबुद्धयः । केचिन्नित्यशरीरं च बुद्धा (धा) श्च सूक्ष्मबुद्धयः
ज्योतिरभ्यन्तरे नित्यं देहरूपं सनातनम् । कस्मात्तेजः प्रभवति साकारमीश्वरं विना
एवं स्तुत्वा स चाऽऽचान्तः स्मरन्विष्णुं च नारद । पाद्यं पद्मार्चिते पादपद्मे चायं ददौ मुदा
अर्ध्यं च प्रददौ तत्र दूर्वापुष्पजलान्वितम् । मधुपर्कं च सुरभिं सर्वाङ्गे गन्धयन्दनम्
यत्प्रदत्तं महेन्द्रेण शुभकर्मणि यौतुकम् । पारिजातस्य माल्यं च जामातुश्च गले ददौ
कुबेरेण च यदत्तममूल्यरत्नभूषणम् । चकार वरणं तस्य स राजा भक्तिपूर्वकम्
कह्निशुद्धांशुकयुगं यद्दत्तं वाह्निना पुरा । ददौ तदेव कृष्णाय परिपूर्णतमाय च